________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् .. 585 प्रशस्तपादभाष्यम् [211] यदनित्यं तन्मूतं दृष्टम्, यथा कर्म यथा परमाणुर्यथाकाशं यथा 'तमः, घटवत्, यनिष्क्रियं तदद्रव्यञ्चेति लिङ्गानुमेयोभयाव्यावसाश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधय॑निदर्शनाभासा इति // न्यायकन्दली अतो व्याप्तिाप्यगतत्वेन दर्शनीया यत् क्रियावत् तद्व्यमिति / न व्यापकगतत्वेन तत्र तस्या अभावात्, अतो विपरीतानुगतोऽयम् / लिङ्गं चानुमेयं चोभयं चाश्रयश्च लिङ्गानुमेयोभयाश्रयाः, तेऽसिद्धा येषां ते लिङ्गानुमेयोभयाश्रयासिद्धाः, लिङ्गानुमेयोभयाश्रयासिद्धाश्चाननुगताश्च विपरीतानुगताश्चेति योजना। [211] वैधय॑निदर्शनाभासान् कथयति - यदनित्यमित्यादिना / नित्यः शब्दोऽमूर्त्तत्वाद् यदनित्यं तन्मूतं यथा कर्मेति लिङ्गाव्यावृत्तो वैधय॑निदर्शनाभासः, कर्मणो 'मूर्तत्वाभावात् / यथा परमाणुरित्यनुमेयाव्यावृत्तः, अनुमेयं नित्यत्वं परमाणों ने व्यावृत्तम् / यथाकाशमित्युभयव्यावृत्तः, नाकाशादमूर्तत्वं नापि नित्यत्वं व्यावृत्तम् / यथा तम [टि०] [211] 'नियम्यत्वनियन्तृत्वे इति :- व्याप्यव्यापकत्वे 'साध्यसाधकत्वे चेत्यर्थः / / ( // इति निदर्शन-निदर्शनाभासनिरूपणम् / / ) [पं०] व्याप्य गतेनेति (कं. 248.11) यत्र धूमस्तत्र तत्र वह्निरित्येव / न तु व्यापक गतेनेति (कं. 248.11) यत्र यत्राग्निस्तत्र धूम इति व्याप्तिनं दर्शनीयेत्यर्थः / तत्रेति (कं. 248.12) व्यापके / विपरीतानुगत इति (कं. 248.12) विपरीतान्वयाख्यः / - [211] अन्यावृत्त इति (कं. 248.20) अप्रदर्शितव्यावृत्तिः / 'अप्रतिपन्नस्येति (कं. 248.22) पुंसः / यथा साध्यं व्यापकं साधनं व्याप्यमिति कं. 248.23) अन्वयज्ञेयम् / तथा साध्याभावो व्याप्यः साधनाभावश्च व्यापक इति (कं. 248.24) व्यतिरेकज्ञेयम् / यदाहुः, क० रूपेमेति शेषः / व्याप्यगतत्वेन दर्शनीयेति (कं.२४८) प्रथममिति शेषः / साध्यार्थिना साधनस्यैव प्रथममाकांक्षितत्वात्किमाश्रितत्वाति आश्रये [इति निषेधस्यापि पारमार्थिकेनवाधिकरणेन निरूपणीयत्वे प्रसाधितमिति भावः / 1 तमः तथा घटवत्, यन्निष्क्रियं तदद्रव्यं दष्टमिति-दे। 2 ननुगतश्च विपरीतानुगतश्चेति-जे.१, जे.२, जे. 3 / / .3 मुर्त्य-कं. 1, कं. 2; जे. 2, जे. 3 / 4 रव्यावृत्तम् - कं. 1; कं.२। 5 नियमत्र - अ, ब / 6 साध्यसाधकत्वे इति अबपुस्तकयो स्ति। 7,8 गतत्वेन-कं.१। 9 विप्रतिपन्नस्थ-कं.१।