________________ 584 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली नित्यत्वमस्ति, नापि साधनममूर्तत्वम् / यथा तम इत्याश्रयासिद्धः / परमार्थतस्तमो नाम न किञ्चिदस्ति, क्व साध्यसाधनयोाप्तिः कथ्यते ? अम्बरवदित्य'ननुगतोऽयं निदर्शनाभासः / यद्यप्यम्बरे नित्यत्वममूर्तत्वमुभयमप्यस्ति, तथापि यदमूर्त तन्नित्यमेवं न ब्रूते, किन्त्वम्बरवदित्येतावन्मात्रमाह / न चैतस्माद्वचनाद'प्रपन्नस्य साध्यसाधनयोरम्बरे सद्भावप्रतीतिरस्ति, तस्मादननुगतोऽयं निदर्शनाभासः। यद्यं तत् क्रियावदृष्टमिति विपरीतानुगतः, द्रव्यं वायुः क्रियावत्त्वादित्यत्रापि व्याप्यं क्रियावत्त्वं व्यापकं च द्रव्यत्वम् / 'यच्च व्याप्यं तदेकनियता व्याप्तिन संयोगवदुभयत्र व्यासज्यते, व्यापकस्य व्याप्यन्यभिचारात्। यत्रापि समव्याप्तिके कृतकत्वानित्यत्वादौ व्याप्यस्यापि व्यापकत्वमस्ति, तत्रापि व्याप्यत्वरूपं समाश्रितैव व्याप्तिर्न व्यापकत्व रूपाश्रया, व्यभिचारिण्यपि 'तद्रूपस्य सम्भवात् / यथोपदिशन्ति गुरवः व्यापकत्वगृहीतस्तु व्याप्यो यद्यपि वस्तुतः। आधिक्येऽप्यविरुद्धत्वावधाप्यं न प्रतिपादयेत् // इति / [40] कृतकत्वानित्यत्वादी अनुमाने वस्तुतः परमार्थतो यो हेतुर्व्यापकत्वेन पक्षत्वेन गृहीतो निश्चितः, 'तु' शब्द: भिन्नक्रमत्वात् स तु व्यापको व्याप्यं न प्रतिपादयेत् व्याप्यस्तु व्यापकं प्रतिपादयत्येव / नन, व्यापको व्याप्यं न प्रतिपादयेत् व्याप्यस्तु व्याप्यं प्रतिपादयत्येवेति कथमुच्यते ! यावता व्यापकोऽपि व्याप्यं प्रतिपादयन् दृश्यते कृतकत्वानित्यत्वादो अनुमाने इति परवचनमुद्दिश्याह आधिक्येप्यविरुद्धत्वादिति (कं. 248.10) आधि [क्य] शब्देन विषमभ्याप्तिकं वहयाद्यनमानम् उच्यते ततश्चायमर्थः-विषयव्याप्ति केऽपि वह्वयनमाने यथा विरोधो न भवति / एवमुक्तं भवति समव्याप्तिकानुमानेषु व्यापकमुखेन व्याप्यमुखेन वा व्याप्ति दर्शयतां नास्ति विरोधः. विषमव्याप्तिकानुमाने तु व्याप्यमुखेनैव व्याप्ति दर्शयतां नास्ति विरोधः, व्यापकमुखेन तु व्याप्ति दर्शयतां विरोधः अग्नेछूमं विनाऽपि दर्शनात् / तस्मात्समव्याप्तिकेषु विषमव्याप्तिकेषु वा अनुमानेषु व्या[प्य] मुखाद् व्याप्तिदर्शनीया न तु म्यापकमुखेनेति / यथा(यं) यत्र धूमस्तत्राग्निः, यत्कृतकं तदनित्यमिति / [कु०] द्रव्यं वायुरिति (कं. 248) तदेकनियतेति (कं. 248) एकधाऽनवाच्यत्वेऽपि कर्तकर्मव्यापारो परस्परं भिद्यते / तत्र च कर्मव्यापार एव गमकत्वे प्रयोजकः / ततश्चानुमानोपयोगिनी म्याप्तिः कर्मण एवेति भावः / व्याप्यत्वनिरूप[ण] समाश्रितवेति व्याप्यत्वरूपेण समाश्रितानमातृभिरपेक्षितेति भावः / व्याप्यं न प्रतिपादयेदिति (कं. 248) व्यापकत्व 1 ननुगतो-जे. 1, जे. 2, जे. 3 / 2 दप्रतिपन्नसाध्य -कं. 1, कं. 2 / 3 यत्तु -जे.३। 4 समाश्रित्यैव -कं.१, कं. 2 / 5 रूपाश्रयत्वात् - कं. 1, कं. 2 / 6 तद्रूपस्यापि सम्भवात्-कं. 1, कं. 2, तद्रूपस्य भावात् -जे. 1, जे. 2 /