________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 583 प्रशस्तपाइभाष्यम् [210] अनेन निदर्शनाभासा निरस्ता भवन्ति / तद्यथा-नित्यः शब्दोऽमूर्त्तत्वात्, यदमत्तं दृष्टं तन्नित्यम्, यथा परमाणुर्यथा कर्म यथा स्थाली यथा तमः अम्बरवदिति, यद् द्रव्यं तत् क्रियावद् दृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासाः / न्यायकन्दली {210] अनेन निदर्शनाभासा निरस्ता भवन्ति / अनिदर्शनान्यपि केनचित् साधर्म्यण निदर्शनवदाभासन्त 'इति निदर्शनाभासाः निदर्शनसदृशाः, अनेन निदर्शन'लक्षणकथनेनार्थानिरस्ता भवन्ति, तल्लक्षणरहितत्वात् / यावनिदर्शनाभासानां स्वरूपं न ज्ञायते, तावत् तेषां स्ववाक्ये वर्जनं परवाक्ये चोपालम्भो न शक्यते कर्तुम्, अतस्तेषां स्वरूपं 'कथयति - यथा नित्यः शब्दोऽमर्तत्वात्, यदमूर्त तन्नित्यं दृष्टम्, यथा परमाणः, यथा कर्म, यथा स्थाली, यथा तमोऽम्बरवत् यद्रव्यं तत् क्रियावद्दष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासाः / नित्यः शब्दोऽमूर्तत्वात्, यथा परमाणुरिति लिङ्गासिद्धो निदर्शनाभास: परमाणोरमूर्तत्वाभावात् यथा कर्मत्यनुमेयासिद्धः, कर्मणो नित्यत्वाभावात् / यथा स्थालीत्युभयासिद्धः, न स्थाल्यां साध्यं [पं०] गुरव इति (कं. 248.8) भट्टाः / व्यापकत्वेत्यादि (कं. 248.9) / इहानुमानं द्विधा, समव्याप्तिकं विषमव्याप्तिकं च / तत्र समव्याप्तिकं यथा 'अनित्यः शब्दः कृतकत्वात् घटवत् अत्र यथा अनित्यत्वेन कृतकत्वं व्याप्तं तथा कृतकत्वेनानित्यत्वमपि व्याप्तमिति पक्षहेतोः समव्याप्तिकत्वम् / विषमव्याप्तिकं यथा 'अग्निमानयं पर्वतो धमवत्त्वात् महानसवत' अत्र पक्षहेत्वोः परस्परं समव्याप्तिर्नास्ति व्यभिचारात् / धूमं विनापि क्वचिदग्निर्दष्टो क्वचिन्न भवत्येवेति विषमव्याप्तिकत्वम् / एवमुभयथाऽनुमाने दृश्यमाने व्याप्तिप्प्यमुखेन कर्तव्या व्यापकमुखेन 'वा? इति शिष्यप्रश्ने सति व्याप्यमखेनैव व्याप्तिः कर्तव्या न तु व्यापकमखेनेत्येतत्प्रतिपादयति / यथा - यद्यपि समव्याप्तिके [कु०] [210] स्वरूपमिति ( क. 247) अवान्त र भेदमुदाहरणं चेत्यर्थः / लिङ्गासिद्ध इति (कं. 247) असिद्धलिगसाधनविकल इत्यर्थः / एवमनुमेयासिद्ध इत्यादावपि / परमार्थ[त] इति (कं. 247) आरोपिनीलरूपस्य * तमस्त्वेन प्रतिपादितत्त्वादित्यर्थः / / ___ नन्वेवं नित्यत्वामूर्तत्वयोरनुगति रस्त्येव तत्कथम(मि)यमन नुगत इत्यत आह यधपीति (कं. 247) अनुगतिरनुगतं न विद्यते / अनुगतमभिषेयतया तस्मिन्वचनविशेषे सोऽननुगत उदाहरणाभास इत्यर्थः / विपरीतानुगत इति (कं. 248) अभिधानगतं विपरीतत्वमन गत उपचर्यते। ननु व्याप्यस्येव प्रथममभिधानं कर्तव्यमित्येतदुक्त इत्यत आह 3 दर्शयति - जे. 1, जे. 2 / 1 इति निदर्शनमदशा: -- के. 1, कं. 2 / 2 लक्षणेनाथा -- कं. 1, कं. 2 / Xब पुस्तक अतः पराणि पत्राणि न सन्ति / अत्रपर्यन्तमेव तत्पुस्तकम् /