________________ 581 टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 581 न्यायकन्दली विशेषस्मारकत्वाभावादित्याह-न संशयकारणमिति। तुल्यजातीयेभ्योऽर्थान्तरभूतेभ्यश्चेति वक्तव्ये सूत्रे सप्तम्यभिधानादेषोऽप्यर्थो गम्यते / शन्दे श्रावणत्वविशेषदर्शनाद् द्रव्यं गुणः कर्मेति संशयः / द्रव्यादिभेदानामेकैकशो विशेषस्य तुल्यजातीयेषु सपक्षेष्वर्थान्तरभतेषु विपक्षेषु दर्शनादिति / किमुक्तं स्यात् ? विशेषो द्रव्ये गुणे कर्मणि च दृष्टः / शब्दे च श्रावणत्वं विशेषो दृश्यते, तस्माद्विशेषत्वाद् द्रव्यादिविषयः संशयः / 'यदि चासाधारणमपि रूपं संशयकारणम्, तदा षट्स्वपि पदार्थेषु 'संशयप्रसङ्गः ? सर्वेषामेव तेषामसाधारणधर्मयोगित्वात्, ततश्च संशयस्याविरामप्रसङ्गः इत्याह - 'अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गादिति / उपसंहरति - तस्मादिति / साधारणो धर्मो विरुद्धविशेषाभ्यां सह दृष्टसाहचर्यः, तयोः स्मरणं शक्नोति कारयितुमतस्तद्दर्शनादेव संशयो भवति, नासाधारणधर्मदर्शनादित्युपसंहारार्थः / [पं०] अथ परः पृच्छति कस्मादिति (कं. 24..21) / अत्रोत्तरं तुल्यजातीयेष्वर्थान्तरभूतेषु च द्रव्यादि भेदानामेकि]कशो विशेषस्योभयथा दृष्टत्वादि(कं. २४५.२१)त्यन्तम् कणादसूत्रम् (वै. सू. 2-2-16) उक्तम् (कं. 245.22) इति सूत्र। अर्थान्तरभूतेभ्य (कं. 245.24) इत्यत्र चकारं विनापि समुच्चयो गम्यः / 'स्वपरजातीयेभ्य (कं. 245.24) इति स्वजातीया अबादयः, परजातीया गुणादयः / द्रव्यत्वेनेति (कं. 245.25) द्रध्यत्वं साधारणम्। सामान्यमेवेति (कं. 246.1) साधारणमेव / तेन रूपेणेति (कं. 246.2) विशेषत्वेन / दर्शनादिति (क. 246.6) पृथिव्याः स्वपरजातीयेभ्यो विशेषः पृथिवीत्वमित्युक्तरीत्या। साधारणो धर्म इति (कं. 246.11) विशेषत्वाख्यः / तयोरिति (कं. 246.12) विरुद्धविशेषयोः। [कु०] श्रावणत्वं विशेषो दृश्यते सः / किं पृथिव्यादयस्तुल्यजातीयाः, किं वा रूपादयः किं वोत्क्षेपणादयः इति संशय इत्यर्थः / यद्यसाधारणमपोति (कं. 246) समानधर्मतयाऽननुसंधीयमानच(ध)मंतयाऽपीति शेषः / अविरामप्रसंग इति (कं. 246) असाधारणधर्मस्याविरामादित्यर्थः / . ननु समानधर्मतयाऽनुसंधीयमानोऽपि विशेषो न विरमत्येव तत्कथं भवता एवमपि संशयविराम इत्यत माह साधारणधर्म इति (कं. 246) यावद्गुणत्वसाधकविशेषं न पश्यति तावदेव हि श्रावणत्वं समानधर्मतयानुसंधीयमानं विरुद्धविशेष स्मारयितुमिष्ट[मि]ति भावः / सामान्यप्रत्ययाविति च भाष्यं (कं. 235) विशेषस्यापि सामान्यतया प्रत्यक्षीकरणादेव संशय इति व्याख्यायेम् / 3 अन्यथेति-कं 1, कं.२। 1 यद्य - जे. 1, जे. 2, जे.३। 2 संशयः स्यात् - जे. 1, जे. 2, जे.३। .4 'एकैकशः' इति पदं सूत्रपाठे नास्ति। 5 स्वसमान-कं. 1 /