________________ 580 न्यायकम्पलीसंवलितप्रशस्तपावमाध्यम न्यायकन्दली अत्र परेणोक्तम् - श्रोत्रग्रहणे शब्दे संशयं वदता त्वया श्रोत्रग्राह्यत्वमेव संशयकारणत्वमुक्तम् / श्रोत्रग्राह्यत्वं च विशेषः, तस्य दर्शनात् संशयानुपपत्तिः / विरुद्धोभयस्मृतिपूर्वको हि संशयः, स्मृतिश्च नासाधारणधर्मदर्शनाद्भवति, तस्य केनचिद्विशेषेण सहानुपलम्मा दिति परेणोक्ते सति सूत्रकारेण प्रतिविहितमेतत्, नायं द्रव्यादीनामन्यतमस्य विशेषः श्रावणत्वम्, द्रव्यगुणकर्मणां मध्येऽन्यतमस्य द्रव्यस्य गुणस्य कर्मणो वा श्रावणत्वं विशेषो न भवति, किन्तु तेषां सामान्यमेवेदं सम्पद्यते, कस्मात् ? तुल्यजातीयेष्वर्थान्तरभूतेषु च द्रव्यादिभेदानामे ककशो विशेषस्योभयथा वृष्टत्वादित्युक्तम् / भिद्यन्ते इति भेदाः, द्रव्यादय एव भेदा द्रव्यादिभेदा द्रव्यगुणकर्माणि, तेषां मध्ये एककस्य द्रव्यस्य गुणस्य कर्मणो वा तुल्यजातीयेभ्योऽर्थान्तरभूतेभ्यो विशेष 'उभयथा दृष्टः' / पृथिव्याः 'परजातीयेभ्यो विशेषः पृथिवीत्वं द्रव्यत्वेन सह दृष्टम् ? रूपस्य विशेषो रूपत्वं गुणत्वेन सह दृष्टम्, उत्क्षेपणस्य विशेष उत्क्षेपणत्वं कर्मत्वेन सह दृष्टम् / शब्दस्यापि श्रावणत्वं 'विशेषः गुणत्वेन सह दृष्टं तस्मादेतवपि विशेषत्वेन रूपेण द्रव्यादीनां सामान्यमेव / ततश्चास्य तेन रूपेण संशयहेतुत्वं युक्तम् / यत् पुनरसाधारणं रूपं न तत् संशयकारणम्, [पं०] यत्परेणोक्तं तद्दर्शयति श्रोत्रग्रहणे (कं. 244.15) इत्यादि / त्वयेति (कं. 244.15) हे सूत्रकार। स्मृतिश्चेति (कं. 245.17) विरुद्धोभयधर्मस्मृतः। नासाधारणधर्मदर्शनावतीति (कं. 245.17) साधारणधर्मदर्शनादेव हि स्मृतिः। तस्येति (कं. 245.17) असाधारणधर्मस्य / केनचिदिति (कं. 245.17) सजातीयेन विजातीयेन वा / नायं द्रव्यादीनामन्यतमस्य विशेषः श्रावणत्वमिति (कं. 245.18) 'कणादसूत्रम् / किन्तु तेषां सामान्यमेवेदं सम्पद्यते इति (कं. 245.20) तेषामिति द्रव्यगुणकर्मणाम् / सामान्यमेवेति साधारणमेव / इदमिति श्रावणत्वम् / अवाऽयं तात्पर्यार्थः-श्रावणत्वं श्रावणत्वेन न संशयहेतुः किन्तु विशेषत्वेन रूपेण विशेषत्वं च साधारणमेव / [कु०] भेदस्य करणसाधनत्वे विशेष्यप्रतिसम्बन्धानुपपत्तेः कर्मसाधान]तां व्याचष्टे मियन्त इति (कं. 245) उभयषा दृष्ट इति (कं. 245) उपलक्षणमेतत् / अनियमेन द्रष्टव्यत्वादिसहचरितो दृष्ट इत्यर्थः / विशेषत्वेनैकेनोपाधिनाक्रांतो धर्मः समा[ना]दीनां दृष्ट इति भावः / ननु विशेषः समानधर्मतया संशयकारणमिति सूत्रस्यार्थमुक्त्वा तस्यैव विशेषस्य संशयकरणत्वनिषेधो नोपपद्यत इत्यत आह अत्युनरिति (?) सुव्यत्यस्य प्रयोजनमाह तुल्यजातीयेभ्य इति (कं. 246) प्रख्याविभूतानामिति (कं. 246) द्रव्यादिजातीयानामर्थान्तरभूतानां च द्रस्यादिभेदानां विशेषापेक्षयाऽपादानामा [म]पि दर्शनापेक्षया दृष्टशन्देऽपि 1 एवं परेणोक्ते -जे. 1, जे. 2, जे. / / 2 एकशः - जे. 1, जे. 2 / 3 स्वसमान - कं. 1; कं. 2 / .4 विशेषः तस्मादेतदपि-जे.जे.२; विशेषः गुणस्वेन तस्मादेतदपि-कं.१, कं. 2 5 नायमित्यादि कणादसूत्रपाठे मोपलभ्यते-सं.।