________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 579 __ न्यायकन्दली अथ द्रव्यं कर्म वा ? तदा विजातीयेभ्य इति शब्दे श्रावणत्वाद् द्रव्यं गुणः कर्मेति संशय इति पूर्वपक्षवादिना सूत्रविरोधे दर्शिते सत्याह - नान्यार्थत्वादिति / नायं सूत्रार्थों यदसाधारणो धर्मः संशयहेतुरिति, किन्त्वस्यान्य एवार्थः। तमेवार्थ दर्शयति - शब्दे विशेषदर्शनादित्यादिना / श्रोत्रग्रहणो 'योऽर्थः स शब्द इति प्रतिपाद्य / तस्मिन् द्रव्यं गुणः कर्मेति संशय, (वै. सू. 2-2-25) इत्यभिहितं सूत्रकारेण / तस्यायमर्थःतस्मिन् श्रोत्रग्रहणेऽर्थे संशयः किं द्रव्यं किं वा गुणः किमुत कर्मेति / [टि०] रूपाविवक्षया विशेषत्वरूपेणैव संशयहेतुः / यत्पुनः इति - असाधारणं श्रावणत्वलक्षणम् / विशेषस्यपृथिव्यादेरित्यर्थः / . // इति हेतुः / / ( // इति हेतु-हेत्वाभासनिरूपणम् // ) [पं०] किमिति (क. 244.19) किं नामकम् / 'विरुद्धप्रभेद एवेति (कं. 244.21) आगमविरुद्धाख्यः / तत्समानासमानजातीययोरिति (क. 244.23) सपक्षविपक्षयोः / अभावादिति (कं. 244.25) उभयथाव्युत्पत्तेरभावात् / न त्वसिद्ध एवायमित्याह विशिष्टार्थेत्यादि (कं. 244.26) / स्वत इति (कं. 244.27) साङ्ख्यमतापेक्षया / .... 'अवरुद्ध इति (कं. 245.1) संगृहीतः / अवरुद्ध इत्यस्मात्पुरो ननु इति अध्याहार्यम् / आहेति (क. 245.1) परीभूय भाष्यकृदाहेत्यर्थः / 'शास्त्रे इति कणादसूत्रे / अर्थान्तरभूतेभ्य इति (कं. 245.5) विजातीयेभ्यः / विशेष इति (कं. 245.7) व्यावृत्तिः / विजातीयेभ्य इति (कं. 245.7) द्रव्यकर्मभ्यः / विजातीयेभ्य इति (कं. 245.9) गुणेभ्यः / श्रावणत्वादिति (कं 245.9) श्रवणग्राह्यत्वात् / आहेति (कं. 245.10) भाष्यकृत् / धोत्रग्रहण इति (कं. 245.12) श्रोत्रेण ग्रहणं यस्यासौ श्रोत्रग्रहणः / श्रोत्रग्रहणो योऽर्थः स शब्द (वै. सू. 2-2-24) इति कणादसूत्रम् / 'तस्मिन् द्रव्यं गुणः कर्मेति संशयः' (क. 244.13) (वै. सू. 2-2-25) एतदपि कणादसूत्रम् / अभिहितमिति (कं. 244.13) द्वितीयाध्याये / [कु०] तारयति अनैकान्तिकेति (कं. 245) / ननु विशेषो नाम असाधारणो धर्मः, स कथं तुल्यजातीयेष्वर्थान्तरभूतेषु च स्यादित्यत आह तुल्यजातीयेष्विति (कं. 245) / पञ्चम्यर्थे सप्तमीति छन्दो च सूत्राणि भवन्ति, छन्दसि च व्यत्ययो दर्शित इत्यर्थः / किं वा विजातीयेभ्य इति (कं. 245) / यथा गन्धवत्त्वं रूपादिभ्यो विजातीयेभ्य विशेषीत्, एवं श्रावणस्वमपि स्यात् / ततश्च शब्दो रूपादीनां सजातीयो विजातीयो वेति संशय इत्यर्थः / ततश्च किं फलमित्यत आह - यदीति (कं. 245) श्रोत्रग्राह्यमेवेति (?) अन्यस्यावचनादस्येव प्रत्यासन्नत्वादिति भावः / परस्य द्रव्यगुणकर्मणां मध्य इति द्रष्टव्यतया वा गुणतया वा कर्मतया वा सन्देहविषयीभवता शब्दस्य श्रावणत्वं विशेषतया सन्देहं न करोतीत्यर्थः / 1 योऽर्थः शब्दः-जे. 2 / 2 विरुद्धभेद -कं. 1, कं. 2 / 3 संगृहीतः - कं. 1 / 4 प्रतीकमिदं कं. 1 पुस्तके नास्ति /