________________ 578 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् ___ ननु 'चायं विशेषः संशयहेतुरभिहितः शास्त्रे तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वादिति (अ. 2 आ. 2 सू. 22) न अन्यार्थत्वात् शब्दे विशेषदर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छावणत्वं किन्तु सामान्यमेव सम्पद्यते, कस्मात् ? तुल्यजातीयेष्वर्थान्तर भूतेषु द्रव्यादिभेदानामेकैकशो विशेषस्योभयथा दृष्टत्वावित्यक्ते, न संशयकारणम् / अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् / तस्मात् सामान्य प्रत्यक्षादेव संशय इति / न्यायकन्दली साधारणो धर्मः संशयं करोति, तेनास्य 'सन्दिग्धश्चानपदेशः' इत्यनेन संग्रहो युक्तो न पुनरप्रसिद्धवचनेनेत्यभिप्रायेणाह - ननु चायं संशयहेतुरभिहितः शास्त्रे तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वादिति / तुल्यजातीयेष्वर्थान्तरभतेष्विति पञ्चम्यर्थे सप्तमी। पदार्थानां विशेष स्तुल्यजातीयेभ्यो अर्थान्तरभूतेभ्यो भवति / यथा पृथिव्यां गन्धवत्त्वं विशेषो द्रव्यान्तरेभ्योऽपि स्याद् गुणकर्मभ्यश्च भवति / शब्दे च श्रावणत्वं विशेषो दृश्यते तत् किं शब्दस्य रूपादिभ्यः 'सजातीयेभ्योऽयं विशेषः ? किं वा विजातीयेभ्यः ? यदि शब्दो गुणस्तदा रूपादिभ्यः सजातीयेभ्यो विशेषोऽयम्, [टि०] विरुद्धस्य स्थाणु पुरुषरूपस्य द्वयस्य स्मरणे संशयो भवति / उभयस्मृतिश्च तदा भवति यदा उध्वंतादिलक्षणः साधारणो धर्मो विशेषेण स्थाणु पुरुषरूपेण सह दृष्टो भवति नान्यथा। तस्मादेतदपि श्रावणत्वादिपृथिवीत्वादि[पं०] यदिति (कं. 244.7) वस्तुत्वम् / तयोरिति (कं. 244.11) मूर्तत्वामूर्तयोः / / निरस्तमिति (कं 244.12) भाष्यकारेण / तदमावादणु मन (कं. 244.13). वै. सू. (7-1-30) इति सप्तमाध्याये सूत्रम् / कोऽर्थः ? तस्यापि कृतस्य विभवस्य व्यापकत्वस्याभावात् मनोण्विति पक्षः / व्यापकं हि आकाशादि द्रव्यम् अणु न [भ] वति / अव्यापकं च मनस्तस्मादण्विति सूत्रस्यार्थः / मिग्राहकप्रमाणबाधित (कं. 244.16) इत्यत्र हेतुरिति पूर्वतो योज्यम् / धर्मिणस्तस्य ग्राहकम् अस्तित्वप्रतिपादकं यत्प्रमाणं युगपज्ज्ञानानुत्पत्त्याख्यं लिङ्ग तेनैव बाधितो 'अस्पर्शवत्वाद्' इति हेतुरिति परमार्थः / [कु०] ननु समानासमानजातीययोः सत्त्वनिरूपणाय प्रायं न हि शशविषाणे सत्त्वं निरूपयितु] शक्यते, विपक्ष गगनकुसुमादाविति तु वचनम्, तत्र सत्त्वनिरूपणाभावाभिप्रायं द्रष्टव्यम् / ननु प्रागमि(?) सत: केयमुत्पत्तिस्ततश्चासिध्येव हेतोः दूषयिते कमर्थं दूषणान्तरं निर्दिश्यत इत्याह विशिष्टार्थेति (कं 244) / अभिप्रायं दर्शयन्भाष्यमव- . 1 ननु चायं संशय-दे। 2 भूतेषु च-व्यो. (610) दे। 3 उक्तम्-कं. 1, कं. 2, कि। 4 प्रत्यया-कं. 1, कं.२ कि / 5 ननु चेति-कं. 1, कं.२ 6 तुल्यजातीयेभ्यो भवति अर्थान्तरभूतेभ्यश्च भवति-कं. 1, कं.२; मे. 3; तुल्यजातीयेभ्योऽर्थान्तरभूतेभ्यश्च भवति-जे. 2 / 7 समान-कं. 1; कं.२। 8 पुरुषस्य यस्य-अ, ब, क / 9 पुरुषस्वरूपेण - भ, व।