________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 577 प्रशस्तपादभाष्यम् [208] 'यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोर'सन्नेव 'सोऽन्यतरत्रासिद्धोऽनध्यवसायहेतुत्वादनध्यवसितः, यथा सत्कार्यमुत्पत्तेरिति / अयमप्रसिद्धोऽनपदेश (वै. सू. 3-1-15) इति वचनादवरुद्धः। न्यायकन्दली [208] अनध्यवसित इत्यसाधारणो हेत्वाभासः कथ्यते / तं व्युत्पादयति-यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोरसन्नेव सोऽन्यतरत्रासिद्धोऽनध्यवसायहेतुत्वादनध्यवसितः, यथा सत्कार्यमुत्पत्तेरिति / सर्व कार्यमुत्पादात् पूर्वमपि सदिति 'साध्ये, उत्पत्तेरिति हेतुः सांख्यानाम् / सति सपक्षे व्योमादावसति विपक्षे गगनकुसुमादावभावान्नकतर पक्षाध्यवसायं करोति / विशिष्टार्थक्रियाजननयोग्येन रूपेण पूर्वमनभिव्यक्तस्य पश्चादभिव्यक्तिरेवोत्पत्तिरिति सांख्याः, तेन तेषामुत्पत्तेरिति हेतोनं स्वतोऽसिद्धता। ___अयमनध्यवसितो हेत्वाभासः केन वचनेन सूत्रकृता संगहीत इत्याह-अयमप्रसिद्धोऽनपदेश (अ. 3 आ. 1 सू. 15) इति वचनादवरुद्ध इति / अनेकान्तिकवद [टि०] [208] श्रोत्रग्रहणो योऽर्थः इति - श्रोत्रग्रहणः शब्द इत्येतावल्लक्षणं शब्दत्वेऽपि “गतत्वावतिव्यापकमत . "उक्तमर्थ इति / "वैशेषिकाणां ह्यर्यशब्देन द्रव्यगुणकर्मणामभिधानं तेन श्रोत्रग्रहणो गुणः शब्दः इत्यर्थः / विरुद्धोभयेति [पं०] [208] [तथे"] वेति (कं. 243.19) यथोक्तलक्षणाभावः / परः प्राह विमित्यादि (कं. 243.21) / श्रीधरः प्राह यदि द्वितीयवदि (कं. २४३.२४)त्यादि। तदसापकत्वे (कं. 243.25) इति, प्रथमस्यासाधकत्वे / .अन्यत्रापीति (कं. 243.25) द्वितीयेऽपि / असापकत्व (कं. 243.24) मित्यत्र प्रथमानुमानस्येति योज्यम् / यथा होत्यादि (कं. 243.26) येनैव रूपेण प्रमाणं कर्तृ अर्थ गमयति तदेव तस्यार्थस्य रूपं ततश्च वरूप्याभाव इति वाक्यार्थः / परवाक्यं - अर्थकमित्यादि (कं. 243.27) / श्रीधरः प्राह तही (कं. २४४.१)त्यादि / विशेषोपस्थापनाभावारिति (कं. 244.6) संशयो हि विरुद्धोभयविशेषोपस्थापने सति भवति / 8] अनन्तरं भाष्यसंगतिमाह अनध्यवसित इति (कं. 244) अक्षपादमतेऽसाधारणो हेत्वाभासोऽस्मन्मतेऽनध्यवसित इति कथ्यत इत्यर्थः / भाष्ये समानासमानजातीययोरसंनिति पक्षमात्रवृत्तित्वापरम् / / 1 यश्च समनुमेये-ग्यो.(६१०)। 2 रसन्नेव च-व्यो. (610) / 3 अन्यतरा-कं. 1, कं. 2 कि.। 4 वचनादेव रुद:-दे। 5 तत्समानासमानजातीययोरित्यादि। 6 साध्यते - कं. 1, कं.२। 7 पक्षावसायं-जे. 2 / 8 इत्यत्राह-जे. 3 / 9 नपदेश इति-कं. 1, कं.२। 10 गतत्वात्मूर्तत्वादति-अ। 11 उक्तसमर्थ-अ, ब / 12 विशेषिकाणां-अ, ब / 13 अत्र पूर्वाणि पत्राणि (पञ्जिकायाः) नोपलभ्यन्ते /