________________ 576 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अथ युगपज्जानानुत्पत्त्या सिद्धं मनस्तदा मिग्राहकप्रमाणबाधितो युगपज्ज्ञानानुत्पत्तेर्मनसोऽणुपरिमाणत्वे सति सम्भवात् व्यापकत्वे मनसो युगपत्समस्तेन्द्रियसम्बन्धाधुगपदेव ज्ञानानि प्रसज्यन्ते / अनुमेयोद्देशस्यागमविरोधः किं दूषणमत आह - अयं तु विरुद्धभेद 'एव / अयमागमविरुद्धोऽनुमेयोद्देशोऽविरोधी प्रतिज्ञेत्यविरोधिग्रहणेन निवतितानां प्रत्यक्षादिविरुद्धानां प्रतिज्ञाभासानां प्रभेद एव, नायं सन्दिग्धो हेत्वाभासः / किन्तु विरुद्धप्रभेद एवेति तुशब्दार्थः / [पं०] सूत्रद्वयमिदं द्वितीयाध्याये / तस्मादिति मूर्तत्वात् व्यभिचारक्रियावत्त्वदर्शनात् / निराकुर्वत इति-प्रशस्तपादभाष्ये इति ज्ञेयम् / शास्त्रविरोध इति - कणादसूत्रविरोधः / एतत्परिहरतीत्यत्र भाष्यकार: कर्ता / तस्येति = संशयस्य / कुतश्विनिमित्तादिति-दूरत्वान्धकारादिना / पूर्वमदृष्टमपोति-प्राग् हि पूर्वदृष्टमेवेत्युक्तम् / सूत्रान्तरं चेति-एतत्कर्तुपदं संशयं दर्शयति - इत्याभ्यां कर्मक्रियाभ्यां सम्बन्धनीयम्। अनवस्थितामुभयोमवस्थामिति - मुण्डताजटिलते. हिं परावतिन्यौ। प्रयोगाभावादित्युक्त्वा प्रयोगाभावमेव दर्शयति - यदि तावदित्यादिना। अथायमिति - अयमद्यः / अयमेवेति यथोक्तलक्षणाभावः / [कु०] लम्मेऽपीति (कं. 244) अनुपस्थानेपीत्यर्थः। अन्यतरपक्ष इति (कं.२४४) अन्यतरपक्षोपमार्दनादन्यतरपक्षज्ञानरूपसंशय इत्यर्थः / वस्तुत्वादिति (कं. 244) समानधर्मरूपादित्यर्थः / एतदेवाह यन्मूर्तत्वामूर्तत्वाभ्यामिति (कं. 244) / वृतं कीर्तन्भाष्यमवतारयति तुल्यबलवत्वमिति (कं. 244) भाष्यकारोक्त आगमविरोधः प्रस्तुतविरुद्धाव्यभिचार्यभिप्रायेति दर्शयन्सूत्रं पठति तदभावादिति (क. 244) / परमार्थतस्तु अन्यतरस्य दोषवत्ताया उपलक्षणमेतद्रष्टव्यम् / अप्रमाणीकृतकरणादस्य प्रतिवादिनः कथमयमागम इत्यत आह य(अ)येदमिति (कं. 244) / . प्रकारान्तरेणाश्रयसिद्धमाशंकते अथेति (क. 244) धमिग्राहकप्रमाणबाधित इति युगपज्ज्ञानानुत्पत्ति हि मनः साधयती (यति)। स्वोपपादकतयाऽणुत्वमन्तर्भाव्येव साधयतीत्यर्थः / तदेतदाह व्यापकत्व इति (कं. 244) कि दूषणमिति (कं. 244) कतमं दूषणमित्यर्थः / 1 इति- कं. 1, कं. 2 / 2 विरोधः-जे. 1, जे. 2 /