________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 575 __न्यायकन्दली तथायेनाप्युत्तरं प्रतिबध्यत इति 'परस्परप्रतिबन्धादुभयोः स्वसाध्यसाधकत्वं न स्यात्, न तु संशयकर्तृत्वम्, विशेषानुपलम्भमात्रेण विरुद्धोभयविशेषोपस्थानाभावादित्याह - 'तुल्यबलत्वे च तयोः परस्परं विरोधान्निर्णयानुत्पादकत्वं स्यान्न तु संशयहेतुत्वमिति / .. ननु यद्वस्तु तन्मूर्त भवत्यमूर्त वा, न मूर्तामूर्ताभ्यां प्रकारान्तरमुपलब्धम्, अतो मनसि मूर्तत्वामूर्त्तत्वयोरनुपलम्भेऽपि द्वयोरभावं द्वयोरपि 'भावमसम्भावयतो भवत्येवान्यतरपक्षे संशयः / सत्यं भवत्येव, न तु विरुद्धाव्यभिचारिधर्मद्वयसन्निपातात्, किन्तु वस्तुत्वात् / यापूर्तत्वामूर्तत्वाभ्यां दृष्टसाहचर्य मनसि प्रतीयमानं स्मृतिद्वारेण तयोरुपस्थापनं करोति / 'तुल्यबलत्वमभ्युपगम्य विरुद्धाव्यभिचारिणः संशयहेतुत्वं निरस्तम्, 'न त्वनयोस्तुल्यबलत्वमस्ति, अन्यतरस्यानुमेयोद्देशस्य 'अमूर्त मनः' इत्यस्यागमेन तदभावादणु मनः (अ. 7 भा. 1 सू. 23) इति सूत्रेण बाधितत्वात् / अथेदं सूत्रमप्रमाणम्, व्यापकमेव मनः, तदा मनःसद्भावे न किञ्चित् प्रमाणमस्तोत्यमूर्त मनः अस्पर्शत्वादिति हेतुराश्रयासिद्धः / पिं०] न्यायवातिककार इति - उद्योतकराचार्यः / विभागजविभागासमवायिकारणत्वमिति - विभागजविभागोऽसमवायिकारण यस्येति समास: विभागजमिति व्याख्येयपदम्, विभागजविभागासमवायिकारणत्वमिति व्याख्यामपर्द ज्ञेयम् / सर्वत इति सपक्षाद्विपक्षाच्च / अत्राहेति भाष्यकारः। 'कर्ता प्रतिपादिते इति भाष्यकारेण / मोबयतीति = परः / कणादसूत्रं दर्शयति दृष्टं च दृष्टवद् दृष्टवा संशयो भवतीत्येतत् / दृष्टमिति / 'दृष्टं सक्रियावत्त्वमपि दृश्यते इति - अत्र मनसीति योज्यम् / पुनः द्वितीयं सूत्रं दर्शयति- 'ययादृष्टमयथादृष्टमुभयथादृष्टत्वात्' संशय इत्येतत् / [कु०] मानस्य तद्विरोधमूर्तत्वजिज्ञासाभावादित्यर्थः / न भवतीति (कं. 243) अवगतमिति शेषः / प्रत्यनुमानयोग एवावगतदोषोद्भावमित्यथ म (ना)यं दोष इत्यत आह द्वितीयेनेति (कं. 243) / . . . . . _ननु न तावत्प्रत्यनुमानमात्रं न दोषः, तथा सति प्रथमेनैव प्रत्यनुमानेन दुष्टस्य द्वितीयस्य प्रयोगानुपपत्तिप्रसंगात्, ततो त्व(त्वा)दे(दा)[व]व दूषणं वक्तव्यम्, नो चेद् दुष्टसेव [इत्यभिप्रायेणाह यदि द्वितीयवदिति (कं. * 243) / सत्यं प्रत्यनुमानमात्रं न दोषः किन्तु प्रत्यनुमानेन वस्तुद्वरूप्यलक्षणपरि (प्रति) कूलतर्कपराहतिः सूच्यते इति शंकते वस्तुन इति (कं. 243) - किं वस्तुनो द्वरूप्यं स्वरूपेणवानिष्टं प्रमाणविरोधाद्वा ? नाद्य इत्याह द्विरूपवस्तु (वस्तु द्विरूपं) न [इति] (कं. 243) / द्वितीयेन दूषणान्तरमवश्यंभावि, इतरथा प्रमाणविरोधस्यैवानुपपत्तेरित्याह अथेति (कं. 243) / विशेषानुपलम्भमात्रेणेति (कं. 244) विशेषानुपलम्भमात्रकार्येण प्रतिरोधेणेत्यर्थः / अनुप 1 परस्परं-कं. 1; कं. 2 / 2 साधकत्वं स्यात्-जे. 1, जे. 2, जे. 3 / 3 तुल्यबलत्वे चेति-कं. 1, कं. 2 / 4 भावं सम्भावयतो - जे. 2 / 5 स संशयः- कं. 1; कं.२। 6 तुल्यबलवत्व -जे.१। 7 ननु तयोः - जे. 1, जे. 2 / 8 कर्ता-इति कं. पुस्तके नास्ति /