________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 573 न्यायकन्दली तथा च दृष्टं च दृष्टवदृष्ट्वेत्यस्यायमर्थः -'दृष्टमेव पदार्थ स्थाणुं वा पुरुष वा, 'दृष्टवद्' दृष्टाभ्यां स्थाणुपुरुषान्तराभ्यां तुल्यं वर्तमानं दृष्टम्, स्थाणुपुरुषान्तरसमानमिति यावत्, देशान्तरे कालान्तरे वा पुनर्दृष्ट्वा कुतश्चिन्निमित्ताद्विशेषानुपलम्भे सति संशयो 'भवतीति / दृष्टं चेति चशब्देन पूर्वमदृष्टमपि पदार्थ दृष्टवद् दृष्टाभ्यां स्थाणुपुरुषान्तराभ्यां समानं दृष्ट्वा संशय इत्यर्थः / सूत्रान्तरं च यथादृष्टमयथादृष्टमुभयथादृष्टमित्येकर्धामविशेषानुस्मरणकृतं संशयं दर्शयति / पूर्वदृष्टमेव पुरुषं यथादृष्टम्' येन येनावस्थाविशेषेण दृष्टं मुण्ड जटिलं वा, तस्मादयथादृष्टमन्येनान्येनावस्थाभेदेन दृष्टम्, कालान्तरे दृष्ट्वा, अवस्था विशेषमपश्यतः स्मरत'श्चैवं तस्यैव प्राक्तनी मनवस्थितामुभयोमवस्थां किमयमिदानी मुण्डः किं वा जटिल इति संशयः स्यादिति सूत्रार्थः / न तु विरुद्धाव्यभिचारी संशयहेतुः, प्रयोगाभावात् / यदि तावदाद्यस्य हेतोर्यथोक्तलक्षणत्वमवगतं तदा तस्माद्योऽर्थोऽवधारितः स तथैवेति न द्वितीयस्य प्रयोगः, प्रतिपत्तिबाधितत्वात् / अथायं यथोक्तलक्षणो न भवति, तदानीमयमेव दोषो वाच्यः, कि [पं०] यत्सात्मकं न भवति तत्प्राणादिमदपि न भवति यथा घट' इति विपक्षादेव व्यावृत्तिर्व्यतिरेकिणः / अनेकान्तिको [इति ] संशयहेतुरित्यर्थः / तस्या इति ध्यावृत्तेः / गन्धवत्त्वमिति 'नित्या पृथिवी, गन्धवत्त्वा'दित्यनमाने / अनित्यव्यावतत्त्वादिति - अनेन विपक्षव्यावृत्ति दर्शयति / नित्यत्वं साधयतीत्यस्मात्पुरस्तादध्याहार्यम् / नित्यादपि गगनादिति - अनेन गगनस्य नित्यत्वेन सपक्षं दर्शयति / उभयोरिति = नित्यत्वानित्यत्वयोः / [कु.] नन्वसाधारणो धर्मो विरुद्धाभ्यां सहादृश्यमानतस्तत्स्मृत्यहेतुत्वे कथं तत्र संशयं कुर्यादित्यत आह तत्र यदीति (कं. 242) यथा साधारणो धर्मोऽन्वयविशेषे न विशेषो स्मारयति, एवमसाधारणोऽपि व्यतिरेकमुखेन विशेषो स्मारयत्येवेत्यर्थः। नन्बस्त्यध्यवसितत्त्वमसाधारणस्य, संशयहेतुत्वात्स दिग्वत्त्वमपि भविष्यति, दृश्यते हि निमित्त[स]मवायात्संज्ञासमावेश इत्यत आह किमुक्तमिति (कं. 242) चोदयतीति (कं. 242) सूत्रार्थमन्यथागृहीतमभिप्रायेणेति शेषः / विरुद्धधर्माभ्यामिति (कं. 242) विरुद्धधर्मोपनायकाभ्यामित्यर्थः / कुतः सूत्रे कथितमित्यत आह दृष्टं चेति (कं. 242) / पूर्वपक्षाभिप्रायेण सूत्रं योजयति अमूर्तत्वेनेति (कं. 242) 'भाष्ये तत्र तत्रेति (कं. भा. 239) श्रुत्या वीप्साया विषयं दर्शयितुं सूत्रान्तरं पठित्वा पूर्वपक्षानुसारेण व्याचष्टे यमादृष्टमिति (कं. 242) समानधर्मसंशयकारणत्वं दर्शयति - तन्नेति (कं. 243) / विवरणभाष्यत्तात्पर्यमुपदर्शयन्व्याचष्टे यादृश इति (कं 243) 4 स्मरतश्च 1 पूर्वमेव दष्टम् - कं.१; कं.२। 2 भवति - कं.१, कं.२। 3 भेद-जे. 1; जे. 2 / 'तस्यैव-जे. 1, जे. 2, जे. 3 / 5 मव-कं. 1 कं. 2 / 6 शास्त्रे-के।