________________ 572 ध्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् भ्यायकन्दली 'यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् संशयः' (अ. 2 आ. 2 सू. 19) / यथा यैन धर्मेण मूर्तत्वाव्यभिचारिणा क्रियावत्त्वेन समं 'वृष्टम्' मनस्तस्मात् 'अयथादृष्टम्' अमूर्तत्वाव्यभिचारिणा स्पर्शवत्त्वेम समं दृष्टम्, अतः 'उभयथा दृष्टत्वात्' संशयः कि क्रियावत्वान्मतं मनः? उतास्पर्शवत्वादमूर्तम् ? इति सूत्रार्थः / तेन विरुद्धाव्यभिचारिणः संशयहेतुत्वं निराकुर्वतः शास्त्रविरोधः। एतत् परिहरति - न संशयः, विषयद्वैतदर्शनादिति / यत् त्वयोक्तं शास्त्रविरोध इति तन्न, यस्मात् संशयो विषयद्वैतदर्शनाद् भवति / एतदेव विवृणोति - संशयोत्पत्ती विषयद्वैतदर्शनं कारणमिति / यादृशे धर्मिण्यूर्ध्वस्वभावे संशयो जायते 'स्थाणुर्वा पुरुषो वा' इति, तादृशस्य विषयस्य पूर्व द्वैतदर्शनमुभयथादर्शनं स्थाणुत्वपुरुषत्वाभ्यां सह दर्शनं संशयकारणम्, न त्वेकस्य धर्मिणो विरुद्धधर्मद्वयसन्निपातस्तस्य कारणम, तस्मानायं सूत्रार्थो यद्विरुद्धाव्यभिचारिधर्मद्वयोपनिपातात् संशय इत्यभिप्रायः / [टि०] 'यन्मूर्ता(तत्वा)मूर्तत्वाभ्याम् इति :- यवस्तुत्वं तयोर्मूतत्वामूर्तस्वयोः। किन्तु विश्वप्रमेद एव इति आगमविरुद्ध इत्यर्थः / [पं०] नान्यत्र / ततश्चैवमनुमान प्रवर्तते - 'सुखादयो गुणाः, अचाक्षुषत्वं सति प्रत्यक्षत्वात् / ' अत्रैव च 'गुणव्यतिरेकेणेति अत्र गुणा: स्पर्शरसगन्धशब्दबुद्धयादयो वाच्याः, न तु रूपम्, तस्य चक्षुषत्वे सति प्रत्यक्षस्वात् / प्रकृते तस्यानुपयोगादिति भावः / परवाक्यं यद्यपीत्यादि / व्यतिरेकिणो हीत्यादि-अयं च व्यतिरेकी में भवति, किन्त्वसाधारणः / स च सपक्षविपक्षव्यावृत्तत्वात्संशयहेतुरेवेति पराभिप्रायः / पक्षे निर्णयहेतुत्वमिति 'सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात् / [कु०] परिहारभाष्यं व्याख्यातुं प्रवर्तते नन्विति (कं. 241) ननु प्रत्येक रूपसंपन्नयोः कथमसाधारणत्वमित्यत आहक्रियावत्वास्पर्शवत्व इति (कं. 241) / यथाऽचाक्षुषत्व इति (कं. 242) गन्धादयो द्रव्यम्, सामान्यत्वे सत्यचाक्षुषप्रत्यक्षत्वादित्यस्मिन्प्रयोमेऽसाधारणत्वं द्रष्टव्यम् / / न स्वसाधारणत्वं संशयहेतुत्वाभावे साध्ये विरुद्धमिति शकते भाष्यमवतारयितुम् - यदि (यपि). विरुद्धति (कं. 242) यद्यसाधारणसंशयहेतुः तहि केवलव्यतिरेक्यपि तथा स्यादसाधारणत्वाविशेषादित्यत आह -व्यतिरेकिण इति (कं. 242) एत(क)स्मादिति (कं. 242) सपक्षावपि तस्या [पादत्वादिति शेषः / न हि सर्वमनित्यम्, सत्त्वादित्यस्य तथा भावः संभवति / 1 यन्मूर्तत्वा- मु. जे. 3; यन्मूर्तत्वामूर्ताभ्याम् - जे. 1; यन्मूर्तामूर्ताभ्याम् -जे. 2 / 2 इदं प्रतीकं-कं. पुस्तके नास्ति।