________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम [207] ननु शास्त्रे तत्र तत्रोभयथा दर्शनं संशयकारणमपदिश्यत इति, न संशयो विषयद्वैतदर्शनात्, संशयोत्पत्तौ विषयद्वैतदर्शनमेव निमित्तम्, तुल्यबलत्वे च तयोः 'परस्परं विरोधाग्निर्णयानुत्पादकत्वं स्यान्न' तु संशयहेतुत्वम्, न च तयोस्तुल्य बलवत्त्वमस्ति, अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वादयं तु विरुद्धभेद एव / न्यायकन्दली [207] विरुद्धाव्यभिचारिणः संशयहेतुत्वाभावे प्रतिपादिते शास्त्रविरोधं चोदयति / 'नन च शास्त्रे तत्र तत्रोभयथा दर्शनं संशयकारणमादिश्यते इति उभयथा दर्शनम् / उभाभ्यां विरुद्धधर्माभ्यां सहैकस्य धर्मिणो दर्शनं संशयकारणमिति शास्त्रे तत्र तत्र स्थाने कथितम् ‘दृष्टं च दृष्टवद् दृष्ट्वा ' संशयो भवति (वै. अ. 2 आ. 2 सू. 18) / अमूर्तत्वेन सहात्मनि दृष्टमस्पर्शवत्त्वं यथा मनसि 'दृश्यते, तथा मूर्तत्वेन सह परमाणौ दृष्टं क्रियावत्त्वमपि दृश्यते, अतोऽमूर्तत्वेन सह दृष्टमस्पर्शवत्त्वमिव मूर्तत्वेन सह दृष्टं कियावत्त्वमपि दृष्ट्वा संशयो भवति किं मनो मूर्त्तम् ? किमुतामूर्तम् ? इति / [टि०] [207] संशयजनकत्वं प्रकारान्तरेणापि निराचष्टे 'न च विरुद्धाव्यभिचारी इति / प्रयोगाभावमेव दर्शयति यदि तावद् इत्यादि / पुनः पराभिप्रायमाशङ्कते विरुद्धं प्रत्यनुमानम् इत्यादि / सिद्धान्तवाद्याह "यदि द्वितीयवद् इति। [पं०] [207] अन्यः संदिग्धः विरुद्धाव्यभिचारिसंज्ञः / विरुद्धाव्यभिचारिण इति प्रस्तुतस्येव हेत्वाभासस्य संज्ञान्तरम् / विरुद्धाव्यभिचारिण: संशयहेतुत्वे भाष्यकारो दूषणं व्याजहार नन्वयमसाधारण एवेत्यादिना। मनोव्यति. रेकेणेति - अस्पर्शवत्वं क्रियावत्त्वं च द्वयमसंहतं मनस्येवास्ते / अस्पर्शवत्त्वं हि आत्मादावपि द्रष्टव्यम्, क्रियावत्त्वं मूर्तद्रव्येष्वपि / प्रत्येकं गुणव्यभिचारेऽपीति प्रत्येति(क)मचाक्षुषत्वप्रत्यक्षत्वयोर्द्रव्येऽपि वर्तमानत्वात् केवलेषु गुणेष्वेव वृत्तिस्तिीत्यर्थः / समुदितयोर्गुणव्यतिरेकेणान्यत्रासंभव इति को भावः? अचाक्षुषत्वप्रत्यक्षत्वे संहते द्वेऽप्येते गुणेष्वेव [कु०] [207] ननु व्याप्तयोनिश्चायकत्वात्कथं संशयहेतुत्वमुक्तमित्यत आह न ह्यत्रोभयोरिति (कं. 241) वस्तुनो द्वयात्मकत्वासंभवादिति (कं. 241) प्रतिकूलतर्कपराहतेाप्तिसंदेहादित्यर्थः / नन्वेवमपि स्वसाध्ययोरनुपस्थापनात्कथं संशयहेतुत्वात्संदिग्धत्वम्, विरुद्धाव्यभिचारिणः, तहि प्रकरणसमोऽपि संदिग्धः स्यात्, सोऽपि प्रकारेण चिन्तां प्रवर्तयन्संशयकरीत्येवेत्यत आह - अयमेव चेति (कं. २४२)-प्रकरणसमस्त्विति (कं. 241) समुदितौ हि परस्परविरोधितौ संशयं कुरुतः, तयोरन्यतमस्तु प्रकरणसमः / प्रतिपक्षबद्धतया न निर्णयं करोतीत्येतावता भास इत्यर्थः / / 1 दर्शनं कारणं-कं. 1, कं. 2; किं। 2 परस्पर - कं. 1, कं. 2; कि। 3 न संशय-दे। 4 बलत्व-दे। 5 हेत्वभावे - कं. 1, कं.२। 6 नन्विति / उभयथा दर्शनमिति-कं.१; कं.२ 7 वर्तते - जे..१, जे. 2 / . 8 न तु-मू.जे. 1, जे.२,जे. 3 / 9 विरुद्धव्यभिचारी-अ। 10 प्राये-अ। 11 यद्-अ, ब, क /