________________ 570 न्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् न्यायकन्दली हेतुत्वमेव / व्यतिरेकिणो हि विपक्षादेवकस्माद् व्यावृत्तिनियता, तेन पक्षे निर्णयहेतुत्वम् / असाधारणस्य तु व्यावृत्तिरनकान्तिको, विपक्षादिव सपक्षादपि तस्याः सम्भवात् / तत्र यदि गन्धवत्वमनित्यव्यावृत्तत्वान्नित्यत्वं साधयति, नित्यादपि गगनाद् व्यावृत्तेरनित्यत्वमपि साधयेत् ? न चास्त्युभयोः सिद्धिः, वस्तुनो द्वरूप्याभावात् / नाप्युभयोरसिद्धिः, प्रकारान्तराभावात् / अतो गन्धवत्त्वात् पृथिव्यां संशयो भवति किमियं नित्या ? . किं वानित्या ? इति / 'यथाहुभट्टमिश्राः यत्रासाधारणो धर्मस्तुदभावमुखेन तु / द्वयासत्त्वविरोधाच्च 'स नः संशयकारणम् // यच्चाह न्यायवार्तिककारः- विभागजत्वं विभागजविभागासमवायिकारणकत्वं नर्ते शब्दात् सम्भवतीति सर्वतो 'व्यावृत्तेः संशयहेतुरिति / अत्राह - ततश्चानध्वसित इति वक्ष्याम इति / विरुद्धयोः सन्निपातोऽसाधारणोऽसाधारणत्वाच्चानध्यवसितोऽयमिति वक्ष्यामः। किमुक्तं स्यात् ? असाधारणो धर्मोऽध्य'वसायं न करोति न पुनः संशयं करोतीति वक्ष्याम इत्यर्थः। , [पं०] घटादीनां च मूर्तत्वाद्विपक्षकदेशवृत्तित्वहेतोरमूर्तद्रव्यस्य / निरवयवत्वादिति द्रव्यत्वेऽपि परमाणौ नि रवयवत्वम्, पृथिव्यादीनां सावयवत्वमिति सपक्षकदेशवृत्तिता / विपक्षब्यापकत्वं तु अद्रव्याणां गुणकर्मादीनां सर्वेषामपि, निरवयवत्वादिति भावना। [कु०] द्वयोः हेत्वोः तुल्यबलयोरिति विशेषग्रहणात् / तुल्यबलत्वं चाभिमानिक द्रष्टव्यम् / मूर्तत्वं चामूर्तत्वं च इति स द्वन्द्वः। विभाषकवद्भवतीत्येकवचनम् / 1 असाधारणस्य व्यावृत्ति - जे. 1 / 2 यदा - कं. 1; कं. 2 / 3 मतः- कं. 1, कं. 2 / 4 व्यावृत्तितः -जे. 1, जे.२। 5 वक्ष्यामः-जे. 3 / ६ऽध्यवसायं न करोतीति वक्ष्याम इत्यर्थः-कं.१ के.२; ऽध्यवसायं करोति न तु संशयं करोतीति वक्ष्याम इत्यर्थः-जे. 1, जे.२।