________________ टिप्पणपञ्जिकाकूसमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् नन्वयमसाधारण एवाचाक्षुषप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवात् / ततश्चानध्यवसित इति वक्ष्यामः / न्यायकन्दली दाकाशवदिति विरुद्धार्थप्रसाधकयोः क्रियावत्त्वास्पर्शवत्त्वयोर्हेत्वोः सन्निपाते मनसो मर्त्तत्वामर्त्तत्वं प्रति संशयः, न यत्रोभयोरपि साधकत्वम्, वस्तुनो द्वयात्मकत्वासम्भवात् / नापि परस्परविरोधादुभयोरप्यसाधकत्वम् 'मूर्तामूर्तत्वव्यतिरेकेण प्रकारान्तराभावात् / न चान्यतरस्य हेतो विशेषोऽवगम्यते येनैकपक्षावधारणं स्यात् / अतः क्रियावत्त्वास्पर्शवत्त्वाभ्यां मनसि संशयो भवति कि मूतं किं वामूर्तमिति / अयमेव च विरुद्धाव्यभिचारिणः प्रकरणसमा दो यदयं संशयं करोति, प्रकरणसमस्तु सन्दिग्धेऽर्थे प्रयुज्यमानः संशयं न 'निवर्तयति / नन्वयमसाधारण एव, 'अचाक्षुषप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवादिति / क्रियावत्त्वास्पर्शवत्त्वे प्रत्येकं न तावत् संशयं जनयतः, निर्णयहेतुत्वात् / सन्निपातश्च तयोरयमसाधारण एवं, संहतयोस्तयोर्मनोव्यतिरेकेणान्यतरपक्षे सपक्षे विपक्षे वाऽसम्भवात्, यथाऽचाक्षुषत्वप्रत्यक्षत्वयोः प्रत्येकं गुणव्यभिचारेऽपि समुदितयोर्गुणव्यतिरेकेणान्यत्रासम्भवः / यद्यपि विरुद्धाव्यभिचारिधर्मद्वयोपनिपातोऽसाधारणो धर्मः, तथापि संशय [टि[ "समवायिकारणे समवाय रूपप्रत्यासत्तिसम्भवात् विभागजविभागा"समवायिकारणत्वाच्छब्दो नित्यो वा स्यादनित्यो वेति' सन्देहः / [पं०] अप्रत्यये रूपसिद्धिः / न मूर्तोऽमूर्तः / तस्य भावोऽमूर्तत्वम् / तस्मादमूर्तत्वात् / अत्र वाक्ये इयं भावनानित्ययोरपि परमाणुमनसोमूर्तत्वादात्मादीनां चामूर्तत्वात सपक्षकदेशवृत्तित्वमनित्यानामपि बुद्धयादीनाममूर्तत्वात् / [कु०] सपक्षकदेशे बुद्ध्यादौ वर्तते घटादौ च न वर्तत इत्यर्थः / विपक्षकदेशे आत्मादो वर्तते, परमाणी च [न] वर्तते 1 चाक्षषत्व - कं. 1, कं. 2, किं। 2 काशादि-कं. 1; कं. 2 / 3 मूर्ता - कं. 1; कं. 2 / 4 तिषयो गम्यते - जे. 1; विशेषो गम्यते-जे. 2, जे. 3 / 5 किं मूतं वा-जे. 2 / 6 निवर्तयतीति - कं. 1; कं. 2 / 7 अचाक्षुषत्व - कं. 1; क. 2 / 8 यदि-जे. 1 / 9 साधारणः -जे. 1 / 1. समवाय -क। 11 समवायि-अ, ब, क। 72