________________ 568 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [206] यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव स सन्देहजनकत्वात् सन्दिग्धः, यथा यस्माद्विषाणी तस्माद् गौरिति / एकस्मिश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोविरुद्धयोः 'सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति केचित् / यथा 'मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति / न्यायकन्दली [206] यस्तु सन्ननुमेये पिणि, तत्समानजातीययोः सपक्षविपक्षयोः, साधारणः स सन्देहजनकत्वात् सन्दिग्धः / यथा यस्माद्विषाणी तस्माद् गौरिति / यदायं पिण्डो : गौविषाणित्वादिति साध्यते, तदा विषाणित्वं गवि महिषे च दर्शनात् सन्देहमापादयन् सन्दिग्धो हेत्वाभासः स्यात् / अयं सपक्षव्यापको विपक्षकदेशवृत्तिरनेकान्तिकः / सपक्षविपक्षयोापको नित्यः शब्दः प्रमेयत्वादिति / सपक्षविपक्षकदेशत्तिः नित्यमाकाशममर्तत्वादिति / सपक्षकदेशवृत्तिविपक्षव्यापको द्रव्यं शब्दो निरवयवत्वादिति / समानासमानजातीययोः साधारण इति यत् साधारणपदं तस्य विवरणं सन्नेवेति / यर्थको धर्मः सपक्षविपक्षयोर्दर्शनार्मिणि सन्देहं कुर्वन् सन्दिग्धो हेत्वाभासः स्यात्, एवमेकस्मिन् मिणि द्वयोर्हेत्वोस्तुल्यबलयोविरुद्धार्थप्रसाधकयोः सन्निपाते सति 'संशयदर्शनादयं विरुद्धद्वयसन्निपातोऽन्यः सन्दिग्धो हेत्वाभास इति कैश्चिदुक्तम्, तद्रूषयितुमुपन्यस्यति - एकस्मिश्चेति / तस्योदाहरणमाह-यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शत्त्वयोरिति / मूतं मनः क्रियावत्वाच्छरादिवत्, अमूर्त मनोऽस्पर्शवत्त्वा [टि०] विभागजत्वमेव व्याचष्टे विमागजविभागेति विभागज विभागोऽसमवायिकारणं यस्येति विग्रहः / विभागाद्धिः य. शब्द उत्पद्यते तस्याकाशं समवायि कारणमसमवायिकारणं तु विभागजो विभागः, तस्याकाशेऽपि समवेतत्वात, [पं०] [206] 'सपम[विपक्ष] व्यापक इति - अत्र सपक्षा गावः / विपक्षकदेशवृत्तिरिति विपक्षा महिषाश्वादयः / सपक्षविपक्षकदेशवृत्तिः नित्यमाकाशममूर्तत्वादिति नियतद्रव्यपरिमाणं मूर्तेः साध्यस्यास्तीति / मूर्तः अभ्रादित्वात् / [कु०] [206] सन्देहमापादयन्संदिग्धेति (कं. 241) सपक्षविपक्षकदेशवृत्तिरिति (कं. 241) अमूर्तत्वं हि 1 सन्निपाते संशय-व्यो. (607-8) / 2 मूर्तामूर्तत्वं - कं. प्रा. 4 पु. व्यो. (608) पाठोऽयं समीचीनो भाति / 3 संशयस्य-जे. 1, जे. 2 / 4 विभागे-अ, ब / 5 कारणसमवायिकारणं-अ, ब / 6 विभागजे-अ, ब / 7 सपक्षविपक्षयोपिक-कं।