________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 567 प्रशस्तपादभाष्यम् [205] यो ह्यनुमेयेऽविद्यमानोऽपि तत्समान'जातीये च सर्वस्मिन्नास्ति तद्विपरीते चास्ति स.विपरीतसाधनाविरुद्धः, यथा यस्माद्विषाणी तस्मादश्व इति / . न्यायकन्दली [205] विरुद्धं हेत्वाभासं कथयति - यो 'ह्यनुमेये विद्यमानोऽपि तत्समानजाती ये च सर्वस्मिन्नास्ति तद्विपरीते चास्ति स विपरीतसाधनत्वाद्विरुद्ध इति / यदा कश्चिद्वनान्तरिते गोपिण्डे विषाणमुपलभ्य 'अयं पिण्डोऽश्वो विषाणित्वात्' इति साधयति, तदा विषाणित्वमश्वजातीये पिण्डान्तरेऽविद्यमानमश्वविपरीते गवि 'महिषादौ च विपक्षे 'विद्य नानं व्याप्तिबलेनाश्वत्वविरुद्धमनश्वत्वं साधयदभिमतसाध्यविपरीतप्रसाधनाद्विरुद्धमित्युच्यते / इदं विपक्षकदेशवृत्तेविरुद्धस्योदाहरणम्, विषाणित्वस्य सर्वत्रानश्वे स्तम्भादावसम्भवात् / समस्तविपक्षव्यापकस्य विरुद्धस्योदाहरणं नित्यः शब्दः कृतकत्वादिति द्रष्टव्यम् / [हिं०] नियता न भवति किन्तु 'सपक्षाद्विपक्षाच्चेति / पर एव स्वपक्षं दृढयति यदाहुः इतिः- यस्तु गन्धवत्त्वादिः तयोः सपक्षविपक्षयोरभावो व्यावृत्तिस्तन्मुखेन द्वारेण संशयहेतुः / ननु सपक्षविपक्ष'व्यावृत्तत्वेनोभया भावनिश्चय एव स्यान्न संशय इत्याह द्वयासत्त्वविरोधाच्च [इति] :-द्वयोनित्यानित्ययो रसत्त्वमेकत्र धर्मिणि विरुद्धप्रकारान्तराभावादिति . भाव: / [पं०] [205] 'सर्वस्मिन्नास्तीति विपक्षे एव भावाद्विरुद्ध इति वचनात् / पिण्डान्तरे इति-अश्वान्तरवेसरादो। विपक्षकदेशवृत्तरिति अनश्वे महिषगवादी अस्ति विषाणित्वम् / अनश्वे स्तम्भादौ नास्ति / अतो विपक्षकदेशवृत्ति / कृतकत्वादिति द्रष्टव्यमिति - अनित्यानां सर्वेषां कृतकत्वात् / परब्यापारापेक्षाभावस्वभावनिष्पत्तो कृतकः / [कु०] [205] विरुद्धं कथयतीति (कं. 240) लक्षणेनेति शेषः / वनान्तरितेति (कं. 240) बोधया (बोधेन ?) सह सांकर्य परिहर्तुमिदं विशेषणम् / तेषामिति (कं. ?) द्रष्टणामित्यर्थः / दर्शना[दिति] (कं. 241) / 1 जातीये सर्व - कं. 1; कं. 2 / 2 ह्यनुमेय इति - कं. 1, कं. 2 / 3 महिप्यादौ - कं. 1; कं. 2 / 4 विपरीतसाध -कं. 1; कं. 2 / 5 सपक्षाच्चेति - अ, ब, क / 6 व्यावृत्ति-अ, ब, क / 7 भावी -अ, ब / 8 रसत्वमेकत्वमेकत्र-अ, ब, क / 9 प्रतीकमिदं कं. पुस्तके मास्ति /