________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली सिद्धमाश्रयासिद्धम् / अनुमेयमसिद्धं यस्येत्यसिद्धानुमेयमिति 'प्राप्तावाहिताग्न्यादित्वान्निष्ठायाः पूर्वनिपातः। यथा हेतुरन्यतरासिद्ध उभयासिद्धो वा भदति, एवमाश्रयासिद्धिरप्युभयथा / 'यथा च हेतुर्वादिप्रतिवादिनोः प्रत्येक समुदितयोर्वा अज्ञानात् सन्देहाद्विपर्ययाद्वा असिद्धो भवति, तथाश्रयोऽपि। यथा च हेतुः कश्चिद्वादिनोऽज्ञाना सिद्धः प्रतिवादिनो सन्दिग्धासिद्ध इति / यद्वा वादिनोऽज्ञानासिद्धः, यदि वा प्रतिवादिनो विपर्ययासिद्धः / यद्वा वादिनः सन्देहासिद्धः प्रतिवादिनोऽज्ञानासिद्धः / यद्वा विपर्ययासिद्धो भवति वादिनः, प्रतिवादिनः सन्देहासिद्धः / एवमाश्रयोऽपोति योजनीयम् / विशेषणासिद्धादयः, अन्यतरासिद्धों भयासिद्धेष्वेवान्तर्भवन्तीति पृथङनोक्ताः / [टि०] द्वितीयपक्षे प्राह 'सन्निपातश्च तयोः इतिः-क्रियावत्त्व सहितमस्पर्शवत्त्वं सपक्षविपक्षव्यावृत्तत्वादसाधारणम / अत्र / दृष्टान्तो यथाऽचाक्षुषत्वेति / शब्दरसगन्धस्पर्शबुद्धयादयो गुणाः, आत्मान्यत्वे सामान्यवत्त्वे अचाक्षुषत्वे सति प्रत्यक्षत्वात् . इत्यत्र केवल प्रत्यक्षत्वं घटादिद्रव्येष्वत्यस्ति "केवलं चाचाक्षुषत्वमाकाशादिष्वप्यस्ति / समुदितं तु पक्षादन्यत्र नास्त्येवेत्यसाधारणत्वम् / अत्र चात्मान्यत्वे सतीत्यनेन मनःप्रत्यक्षस्यात्मन: सामान्यवत्त्वे सतीत्यनेन रसत्वादिसामान्यानां व्यवच्छेदः / असाधारणत्वे प्रतिपादितेऽपि परोऽनध्यवसितत्वममृष्यमाणः प्राह यद्यपि विरुद्धेति संशयहेतुत्वात् सन्दिग्ध एव स्यानत्वनध्यवसित इति भावः / असाधारणस्य तु इति विपक्षादेव केवलाद् व्यावृत्तिरित्येवमेकस्मिन्ने वान्ते [पं०] सिद्धिरपि द्विधेत्यर्थः / अत्र चोदाहरणद्वये दर्शिते शिष्यस्य निःशंका प्रतीतिर्भवति। तत्तु वयं संप्रदायाभावान्न जानीमः / प्रत्येकमिति - अन्यतरासिद्धौ दशितः / समुदितयोरिति उभयासिद्धो दर्शितः तथाश्रयोऽपोति हेतोराश्रयोऽनुमेयं(यः) इत्यर्थः / आश्रयोऽपीत्यारभ्य पृथङ्नोक्ता-इत्येतद्वाक्यं यावदक्षरार्थो सुगमः। भावार्थस्तुदाहरणयिते / तानि तु वयं संप्रदायाभावान्न विद्मः इति नादिशामः / [कु०] प्रतीयते गुणतया [वा] ? नाद्य इत्याह द्रव्यान्तरं नास्तीति (कं. 240) / द्वितीये त्वाश्रयासिद्धिश्चेत्याह आरोपितस्येति (कं. 240) एवमाश्रयासिद्धिरपीति (कं. 240) / ___ तत्रान्यतराश्रयासिद्धं यथा शृंगत्वात्वाद्गोशृंगवदिति / विशेषणासिद्धादय इति (कं. 240 ) आद्यग्रहणाद्विशेषासिद्धव्यधिकरणासिद्धादयो गृह्यते / 1 प्राप्ते वाहिता-जे. 1, जे. 2; प्राप्ते आहिता-जे. 3 / 2 यथा च हेतोः - कं. 1, कं. 2; यथा हेतुः -जे. 1, जे. 2 / 3 दसन्दिग्ध:-कं. 1, कं. 2 / 4 न्तर्भूतत्वात् - जे. 3 / 5 सन्निपातश्चायोः-अ, ब / 6 सहितस्पर्शवत्त्वं - अ, ब / 7 केवलं चाक्षुषत्व - अ, ब / 8 न त्वध्यवसित - अ, ब / 9 वन्ते - अ।