________________ 564 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [204] एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति / तत्रासिद्धश्चतुर्विधः- उभयासिद्धः अन्यतरासिद्धः, तद्भावासिद्धः, अनुमेयासिद्धश्चेति / तत्रोभयासिद्ध उभयोर्वादिप्रतिवादिनोरसिद्धः, यथाऽनित्यः शब्दः सावयवत्वादिति / 'अन्यतरासिद्धो यथा- अनित्यः शब्दः कार्यत्वादिति / तद्भावासिद्धो यथा . धमभावेनाग्न्यधिनतौ कर्तव्यायामपन्यस्यमानो बाष्पो 'धूमभावेनासिद्ध इति / . अनुमेयासिद्धो यथा 'पार्थिवं तमः कृष्णरूपवत्त्वादिति / - न्यायकन्दली क्रियावत्त्वं गुणवत्त्वं चाद्रव्ये विपक्षे नास्त्येव, तस्योभयस्य वचनं क्रियावत्त्वाद् गुणवत्त्वादित्येवं रूपमपदेश इति हेतुरिति सिद्धं व्यवस्थितं निर्दोषत्वात् / [204] एतेन अपदेशलक्षणकथनेन अर्थादसिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति / अनुमेयेन सहचरितमित्यनेनासिद्धवचनस्यानपदेशत्वमुक्तम् / तत्समानजातीये च प्रसिद्धमित्यनेन विरुद्धानध्यवसितवचनयोरनपदेशत्वम् / तद्विपरीते नास्त्येवेत्यनेन सन्दिग्धवचनस्यानपदेशत्वमिति विवेकः / [टि०] जनकत्वेन विरुद्धाव्यभिचारिणः प्रकरणसमाद् भेदमाह 'अयमेव हि इत्यादि "विरुद्धाव्यभिचारी हि संशयं प्रत्युत उत्पादयति हेतुदयस्य सद्भावात्; यथा किञ्चिदौषधं पूर्वरोगं तावन्न शमयति किन्तु प्रत्युत रोगान्तरमुत्पादयति, प्रकरणसमे तु जिज्ञासितोऽर्थः संशयं निवर्तयितुमेव न शक्नोति न पुनः करोति / नित्यानित्यधर्मानुपलब्ध्या हि शब्दे [पं०] वाक्यार्थः / समानजातीये इति वायुसमानजातीये / मूर्तद्रष्यमात्रे क्रियावत्त्वमस्तीति न पुनरमूर्तद्रव्ये आकाशदिगादौ इति भावः / अद्रव्ये इति = गुणकर्मादी। [204] अनपदेशत्वमिति = अहेतुत्वम् / विरुद्धानध्यवसितवचनयोरनपदेशत्वमिति-विरुद्धो हि विपक्ष एव भवति / अनध्यवसितः त्वसाधारण उच्यते / तस्य च कुतः सपक्षे प्रसिद्धिः। स हि न सपक्षे, न विपक्षे वर्तते / यथा 'अनित्यः शब्दः, श्रावणत्वात् / ' शब्दधर्मिणं विहाय श्रावणत्वं न क्वापि सपक्षे न च विपक्षे वर्तते / [कु०] [204] असिद्ध कथयतीति (कं. 240) अवान्त रभेदेनेति शेषः / न वादिन इति (के. २४०)-नयायिकस्य वैशेषिकस्य वा न यथाऽवयवत्वं सिद्धे सिद्धम्, ताभ्यामनुगुणतया शाब्दस्य स्वीकारात् / नापि प्रतिवादिन इति (कं. 240) भाट्टस्य प्राभाकरस्य वा न शब्दे सावयवत्वं सिद्धम् / भाट्टेन नित्यद्रव्यतया प्राभाकरेण नित्यगुणतया . 1 अन्यन्तरासिद्धोऽनित्यः-दे। 2 'धमभावेनासिद्ध' इति दे पुस्तके नास्ति। 3 पार्थिवं द्रव्यं-कं. 1, कं. 2, किं / 4 अयमेव च -म.,जे.१, जे. 2, जे. 3 / 5 विरुद्धव्यभिचारी-अ, ब / 6 शकोति-अ।