________________ टिप्पणपञ्जिकाकुसुमोद्गममदिदीकानयोपेतम् 563 प्रशस्तपादभाष्यम् [203] लिङ्गवचनमपदेशः / मदनुमेयेन सहचरितं तत्समान जातीये च सर्वत्र सामान्येन प्रसिद्धं तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम् , तस्य वचनमपदेशः। यथा क्रियावत्त्वाद् . गुणवत्त्वा'च्च'. (वै..सू. 2-1-13): इति / तथा च तदनुमेयेऽस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्व'मसर्वस्मिन 'क्रियावत्त्वम् अस्ति / उभयमप्येतदव्रव्ये नास्त्येव / तस्मात् तस्य वचनमपदेश इति.सिद्धम् / / / . .. न्यायकन्दली [203] लिङ्गवचनमपदेशः / अस्यायं कथयति - यदनुमेयेनेत्यादिना / तत्सुगमम् / उदाहरणमाह - 'क्रियावत्त्वाद् गुणवत्त्वाच्च' (वै. सू. 2-1-13) इति / द्रव्यं वायुरिति 'प्रतिज्ञायां क्रियावत्वादिति क्रियावत्त्वस्य लिङ्गस्य वचनमपदेशः, तस्यामेव प्रतिज्ञायां गुणवत्त्वस्य लिङ्गस्य गुणवत्त्वादिति वचनमपदेशः, 'उभयोरुपन्यासः सपक्षकदेशवृत्तेः सपक्षव्यापकस्य च हेतुत्वप्रदर्शनार्थः / यदुक्तं लिङ्गलक्षणं तत् क्रियावत्त्वस्य गुणवत्त्वस्य चास्तीत्याह - तथा च तदिति / तद् गुणवत्त्वमनुमेयेऽस्ति तत्समानजातीये सपने द्रव्ये सर्वस्मिन्नस्ति, असर्वस्मिन् सपक्षकदेशे मूर्तद्रव्यमाने क्रियावत्वमस्ति, उभयमप्येतत् [टि०] [203 to 206] ( // अथ हेतुहेत्वाभासनिरूपणम् // ) 'सावयवत्वं च (न?) वादिनः इति :- जैनानपेक्षयेदमुक्तं तन्मते शब्दस्य पौद्गलिकत्वात् / पर एव संशय[पं०] [203] सपक्षव्यापकस्य च हेतुत्वप्रदर्शनार्थमिति - क्रियावत्त्वं हि हेतुरनन्तरमेव वक्ष्यमाणया युक्त्या सपक्षकदेशवृत्तिरतस्तद्ग्रहणादन्येऽपि प्रयत्नान्तरीयकत्वादयः सपक्षकदेशवृत्तयो हेतवो हेतुत्वेन दर्शिताः / प्रयत्नान्तरीयकत्वस्य तु सपक्षकदेशवृत्तित्वमेवं द्रष्टव्यम् -अनित्यः शब्दः, प्रयत्नान्तरीयकत्वात्' / प्रयत्नान्तरीयकत्वं हि अनित्येषु घटादिषु दृष्टम् / अनित्येष्वपि विद्युदादिषु न दृष्टम् / अतः सपक्षकदेशवृत्तिः। तथा गुणवत्त्वं हेतुरनंतरमेव वक्ष्यमाणया युक्त्या सपक्षव्यापकोऽतस्तद्ग्रहणादन्येऽपि कृतकत्वादयः सपक्षव्यापका हेतवो हेतुत्वेन दर्शिता इति [कु०] [203] सुगममिति (कं. 237) लिंगलक्षणव्याख्यानावसरे व्याख्यातत्वादिति शेषः / क्रियावत्वादिति (कं. 237) असंभवव्यावृत्तेति शेषः / उ(अ)पदेश इति (कं. 238) हेतुरिति (कं. 238) / समानतंत्रप्रसिद्धिहेतु (त्व) देशपदं व्याचक्षाणस्तत्र स्वसाधनत्व[व्याख्या एकमिति विशेषणमिह द्रष्टव्यमिति सूचयति अपदेशलक्षणकथनेनेति (कं. २४०)-विशेषविधेः शेषनिषेधपरत्वादिति भावः / लिंगवचनमपदेश इत्युक्तेऽलिंगवचनस्यानपदेशत्वं सिद्धम् / अलिंगलक्षणेन रहितं येन वा लिंगलक्षणेन रहितमित्युक्तं तत्र विवेकमाह - अनुमेयेनेति (कं. 240) / 1 जातीये सर्वत्र-कं. 1, कं. 2, कि.; जातीये च सर्वत्र च व्यो. (603) / 2 सर्वस्मिन् -दे। 3 क्रियावत्त्वम् उभय-कं. 1, कं. 2, कि / 4 प्रतिज्ञायाः- कं. 1, कं.२। 5 तयो-कं.१; कं. 2 / 6 सावयत्व-अ, ब / . 7 -प्रदर्शनार्थः - के।