________________ 562 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली .: शब्दो नार्थप्रत्यायक'इति स्ववचनविरोधी। यदि शब्दस्यार्थप्रत्यायकत्वं नास्ति, तदा 'शब्दों नाथं प्रतिपादयति' इत्यस्यार्थस्य प्रतिपादनाय शब्दप्रयोगोऽनुपपन्नः। . अर्थ'तदर्थ शब्दः प्रयुज्यते ? तदभ्युपगतं शब्दस्यार्थप्रत्यायकत्वमिति प्रतिज्ञायाः स्ववचनविरोधः / प्रत्यक्षानुमानावगत्तवस्तुत'त्वाख्यानं शास्त्रम् / तद्विरोधः प्रत्यक्षानुमानविरोध एव, तथा तद्भावभावित्वानुमानसमधिगम्यं शब्दस्यार्थप्रत्यायकत्वं प्रतिषेधयतोऽनुमानविरुद्धव प्रतिज्ञा, कस्मात् 'स्वशास्त्रस्ववचनविरोधयोः पृथगभिधानम् ? अत्रोच्यते-प्रमाणाभासमूलमपि शास्त्रं भवति यथा शाक्यादीनाम्, अत्र बौद्धस्य 'सर्वमक्षणिकम्' इति प्रतिजानतः स्वशास्त्रविरोध एव, न प्रमाणविरोधः। स्ववचनम् अपि कदाचिदप्रमाणमूलमपि स्यात्, अतस्तद्विरोधों न प्रमाणविरोधः, किन्तुं स्ववचनविरोध एव / [कु०] कुतोऽवसीयत इत्यत आह -अत्र क्षीरमिति (कं. 236) आगमप्रामाण्यानभ्युपगमे क्षीरस्य दृष्टान्तस्य. साध्यविकलता स्यादिति भावः / प्रागुत्पत्तेः कार्य सदिति ब्रुवाणो वैशेषिके शास्त्र प्रमाणीत्वकारीति कुतोऽयं निर्णय इत्यत आह वैशेषिकेति (कं. 237) बादि (द)प्रारंभे वादिभ्यां प्रतितन्त्रसिद्धान्तः स्वोकर्तव्यः इतरथा निराश्रयो वादो दुष्कर इति भावः / नन शब्दो नार्थप्रत्यायक इति प्रतिजानानो न कविशब्दोऽर्थप्रत्यायक इति ब्रवीति तत्कथं स्ववचनविरोध इत्यत आह यदि शब्दस्येति (कं. 237) अनुसन्धत्त इति शेषः। ततश्च शब्दस्यार्थप्रत्यायकत्वमभिसंदधानस्य स्वभिसंहित प्रतिपिपादयिषितया शब्दमेव युञ्जानस्य वाङ्मनसयोविसंवादः / अप्रयुञ्जानस्य स्वाभिसंहितस्य प्रतिपादनमशक्यमिति भावः / तृतीयचतुर्थयोइदाहरणयोः पौनरुक्त्यमाशंकते-प्रत्यक्षानुमानेति (कं. 237) यद्यपि शास्त्रमध्यनुमानमेव शब्दस्य पृथक्प्रमाणत्वनिषेधात्, तथापि न तावन्मात्रेणोदाहरणपोनरुक्त्यम्, किन्तु तन्मूलप्रमाणापेक्षयेत्यत आह तद्भावभावित्वेति (कं. 237) - अनुमान[सम]धिगम्यमिति (कं. 237) / प्रतिपादितमेतत् पुरुषो धर्मी इत्यादिना / तत्राभ्युपगतस्वशास्त्रविरोधोदाहरणस्य पौनरुक्त्यं परिहरति प्रमाणाभासमूलमपीति (कं. 237) / स्ववचनविरोधोदाहरणस्य पौनरुक्त्यं परिहरति स्ववचनमपीति (कं. 237) / / 1 तदर्थः - कं.१; कं. 2 / २-र्थप्रतिपादक-कं.१; कं.२। 3 तत्त्वान्वाख्यानं - कं.१ कं.२। 4 स्वशास्त्रवचन- कं. 1; कं. 2 / 5 भवति शाक्यादीनाम- कं.१, कं. 2 / /