________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटोकात्रयोपेतम् 561 न्यायकन्दली - घनमम्बरमित्यनुमानविरोधी। येन प्रमाणेनाकाशमवगतं तेनैवाकाशस्य नित्यत्वं निरवयवत्वं च प्रतिपादितम्, अतो निबिडावयवमम्बरमिति प्रतिज्ञा मिग्राहकानुमानविरुद्धा। . ब्राह्मणेन सुरा पेयेत्यागमविरोधी। 'ब्राह्मणस्य पानार्हा सुरा पीता पापसाधनं न भवतीति प्रतिज्ञार्थः / अत्र क्षीरमुदाहरणम्, क्षीरस्य च पापसाधनत्वाभावः श्रुतिस्मत्यागमैकसमधिगम्यः / येनैवागमेन क्षीरपानस्य पापसाधनत्वाभावः प्रतिपादितः, तेनैव सुरापानस्य पापसाधनत्वं प्रतिपादितमिति ब्राह्मणेन सुरा पेयेति प्रतिज्ञाया दृष्टान्तग्राहकप्रमाणविरोधः / 'वैशेषिकस्य . प्रागुत्पत्तेः सत्कार्यमिति ब्रुवतः स्वशास्त्रविरोधी। वैशेषिको हि वैशेषिकशास्त्रप्रामाण्याभ्यपगमेन वादादिषु प्रवर्तते / तस्य 'प्रागुत्पादात् सत् कार्यम्' इति ब्रुवतः प्रतिज्ञायाः 'स्वशास्त्रेण विरोधः, वैशेषिकशास्त्रे 'असदुत्पद्यते' इति प्रतिपादनात् / [पं०] प्रमाणविरोध इति दृष्टान्नग्राहकेण क्षीरस्यापापसाधनत्वप्रतिपादकेनागमलक्षणेन प्रमाणे न विरोधः / एतदर्थ इति शब्देनार्थ प्रतिपादयतीत्यस्यार्थस्य प्रतिपादनार्थम् / परवाक्यं प्रत्यक्षेत्यादि / तद्भावमावित्वानुमानसमधिगम्यमिति शब्दोऽर्थप्रत्यायकस्तद्भावभावित्वात् / अर्थप्रत्ययभावे हि शब्दप्रवृत्तिः / [कु०] तत्किन्त्विति (कं. 236) दृष्यं विविनक्ति प्रत्यक्षेति (कं. 236) मिणस्तादवस्थ्यादिति (कं. 236) यदि वह्निः स्वयं"." इदमुषेत् तदा भवेस बाधः / नत्वेवं तस्याचेतनत्वादित्यर्थः / स्वविषय इति (कं. 236) न हि कृतकत्वं स्वयमेवानुपलव्यं सिसाधयिपत त्यर्थः / कि विति (कं 236) मुख्यया वृत्त्या वादिन एवेत्यर्थः / यदि प्रतिज्ञार्थे गोण्या वृत्त्या पक्षे हेतुश्च दूष्यः गुणस्तु वादिदोषलिंगता (तया) ऽयोग्यविकीर्षया हि क; दूष्य इत्यर्थः / नत्वाकाशस्याद्यत्वे किमनुमानम्, कथं वा तेनायत्वानुमानबाध इत्यत आह येनेति (कं. 236) / अपि शिष्टं हि लिंगशब्दे भिन्नमेव गगनं गमयति स्वाभेदगमनीयान्तरी (रि)कतया नित्यत्वं निरवयत्वं च गमयत्येवेति भावः / ननु सुराया अपेयत्वं पाषाणं वदनव्यवहार्यतया वाऽन्य व्यवहार्यस्वेऽपि नोदकादिवत्खाद्यतया यदुभयथापि न शास्त्रविरोध इत्यत आह ब्राह्मणस्येति (कं. 236) पानाहत्यनिषिद्धपानेत्यर्थः / अद्य साधने न भवतीति निषेधानुमितप्रत्यवायसाधनं न भवतीत्यर्थः / ननु सुरा पेयेति प्रतिज्ञावता वराकेणागमः प्रमाणतयाऽभ्युपगम्य इति 3 वंशषिकस्यापि- कं. 1; कं. 2 / 1 वास्य - जे 1, जे. 2 / 2 ब्राह्मणस्य सुरा-कं. 1; कं.२। 4 शास्त्रेण - कं. 1; कं. 2 / 5 तच्छास्त्रे - जे. 3 /