________________ Prhidai. TAR यायकन्दलीसंवलिंतप्रशस्तपादभाष्यम् भिग्रहण न्यायकन्दली जा "बाधाविनाभावयोविरोधादविनाभूतस्य बाधानुपपत्तिरिति चेत् यदि रूप्यमविनाभावोऽभिमतः तदास्त्येवाविनाभूतस्य बाधः, यथानुष्णोऽग्निः कृतकत्वादित्यस्यैव / अथाबाधितविषयत्वे सति रूप्यमविनाभाव इत्यभिप्रायेणोच्यते - अविनाभूतस्य नास्ति बाधेति, तदोमित्युच्यते। किन्त्वबाधितविषयत्वमेव रूपं कथयितुं प्रत्यक्षा द्यावराधिग्रहण कृतम् / .. . . ... / प्रत्यक्षविरोधः किं पक्षस्य दोषः? किं वा हेतोः ? न पक्षस्य, 'धर्मिणस्तादवस्थ्यात्। नापि हेतोः, स्वविषये तस्य, सामर्थ्यात् .. विषयान्तरे सर्वस्यवासामर्थ्यात् / किन्तु प्रतिपादयितुरिदं दूषणम्, योऽविषये साधनं प्रयुक्ते। यदि प्रतिज्ञातार्थप्रतीतियोग्यता: विरहस्तत्प्रतिपादनयोग्यताविरहश्च दूषणमभिमतम् ? तदा कर्मकरणयोरप्यस्ति दोषः / [टि०] हृतः / जिज्ञासितो, ह्यनुमानस्य विषयो जिज्ञासा न संशये भवति, संशयश्च प्रमाणनिणितेऽर्थे स्यात्, तत: प्रत्यक्षपरिच्छिन्ने उष्णत्वे संशयाभावात् जिज्ञासाया अभावेऽनुमानप्रवृत्तिनं भवतीति भावः / 'कर्मणस्तादवस्थ्याद् इति कर्मणः / साध्यस्येत्यर्थः / [तदाकर्मकरणयोः इति :- साध्यसाधनयोरित्यर्थः] - ht: (इति प्रतिज्ञा) // ..: [पं०] [इति] कर्मेति प्रतिज्ञा, करणमिति हेतुरुच्यते / अत्रे कर्मणो दोषः प्रतिज्ञातार्थप्रतीतियोग्यताविरहः करणस्य तु दोषः तत्प्रतिपादनयोग्यताविरहः / प्रतिज्ञातार्थप्रत्यानयनसामर्थ्याभाव इति यावत् / करणं हि हेतुरूपं प्रतिज्ञातार्थप्रतीति करोति / तां चैन्न करोति तहि प्रतिज्ञार्थप्रत्यानयनसामार्थ्याभावाख्य एव तस्य दोष इति भावना / दृष्टान्तग्राहक [कु०] ननु समानतंत्रे , कालत्ययापदिष्ट इति हेतुरखावेन दुष्ट् इत्युच्यते तस्कथमविरोध. इत्यत आह हेतोरपीति (कं. 236) प्रत्यक्षविरोधादिति (कं. 236) प्रत्यक्षेणानुष्णत्वप्रमीतविरोधादित्यर्थः / कतस्दनयोर्यथार्थ इत्यत्राभिप्रयुक्तवाक्यं प्रतिज्ञादूषणस्य छायस्त्वे प्रमाणयति त (य) थोक्तमिति (कं. 236) मूले / प्रज्ञाबाधेऽनुत्पन्ने पूर्वेणोपजीव्येन विषयोद्धृतविपर्ययपरिच्छेदात्प्रमितज्ञानविष(य)त इत्यर्थः / / .... . .. ____ ननु साध्यवति सलिले तद्विपर्ययवलि वह्नौ च दृश्यमानं कृतकत्वं संदिग्धहेत्वाभासो भविष्यति, किमर्थं पृथग्विरोधचिन्तेत्याशयवानाशंकते बाधेति (कं. 236) तत्किं विपक्षदर्शनात्संदिग्धता पक्षेऽपि वा साध्यविपर्ययवति / नाद्य इत्याह यदीति(कं. 236) न हि कृतकत्वस्य वह्नि विहाय क्वचिदनुष्णत्वव्यवहार इत्यर्थः / न द्वितीय इत्याह अथ बाधितेति (कं. 236) एवं तहिं बाधकमुपजीव्यसंदिग्धत्वोद्भावनं मृतमारणकल्प्यमित्यभिप्रायवानुपसंहरति 1 द्यविरोधीत्युक्तम् - जे. 3 / 2 कर्मणः - जे. 1, जे. 2, जे. 3 / 3 प्रतिपादनम् योग्यता - कं. 1; कं. 2 / 4 अभावो-अ, ब, क। 5 धर्मिण म., कर्मण-जे. 1, जे. 2, जे. 3 / 6 [ ] एतच्चिह्नान्तर्गतः पाठः भबपुस्तकयो स्ति।