________________ टिप्पणपञिकाकुसुमोद्गमारिटीकात्रयोपेतम् न्यायकन्दली तद्विरोधोऽस्ति न सा प्रतिज्ञेत्यर्थः / किमनेनोक्तं भवति ? न वाद्यभिप्रायव्याप्तिमात्रेण साध्यता, किं तु यत् साधनमर्हति तत् साध्यम्, स एव च पक्षस्तदितरः पक्षाभास इति / प्रत्यक्षादिविरोधोदाहरणं यथा- अनुष्णोऽग्निरिति / अनुष्ण इत्युष्णस्पर्शप्रतिषेधोऽयम् / अवगतं च प्रतिषिध्यते नानवगतम् / न चोष्णत्वस्य बढेरन्यत्रोपलम्भसम्भवः, वह्नावपि तस्य प्रतीतिर्नानुमानिकी, प्रत्यक्षाभावे अनुमा'नस्याप्रवृत्तेः / प्रत्यक्षप्रतीतस्य च प्रतिषेधे प्रत्यक्षप्रामाण्याभ्युपगमेन प्रवर्तमान प्रतिषेधानुमानं तद्विपरीत'वृत्ति तेनैव बाध्यते, विषयापहारात् / को विषय स्यापहारः ? तद्विपरीतार्थप्रवेदनम्, तस्मिन् सत्यनुमानस्य किं भवति ? उत्पत्त्यभावः, प्रथमप्रवृत्तेनाबाधितविषयप्रत्यक्षेण वह्वरुष्णत्वे प्रतिपादिते तत्प्रतीत्यवरुद्ध च तस्यानुष्णत्वप्रतीतिर्न भवति / हेतोरप्ययमेव बाधो यदयमनुष्णत्वप्रतिपादनाय प्रयुक्तः तत्प्रतीति न करोति, प्रत्यक्षविरोधात् / यथोक्तम् - ... वपरीत्य'परिच्छेदे नावकाशः परस्य तु। मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः // इति / [टि०] इत्यादि :- साध्य स्यानुष्णत्वस्य यद्वैपरीत्य मुष्णत्वरूपं तस्य प्रत्यक्षेण परिच्छेदे परस्यानुमानस्यावकाशो नास्ति / भत्र हेतुमाह मूले तस्य इति :-तस्यानुमानस्य मूले संशयेऽनुत्पन्ने पूर्वेण प्रत्यक्षेण विषयोऽनुमानप्रवृत्त्याधारो [पं०] तदीमिति-तदानुमितिपदविभागः...... इत्यनेनाकारलोपसंहिता। परवाक्यं-प्रत्यक्षविरोध इत्यादि / श्रीधरवाक्यं -न पक्षस्येत्यादि / कर्मण इति - अनुमेयस्याग्नेः / स्वविषये इति - अनित्यत्वादो। तस्य सामर्थ्यादिति यद्ययं हेतुः दुष्ट: स्यात्तदा न कदाचिदपि साध्यं साधयेदिति भावः / साधयति चायमन्यत्र शब्दादौ साध्यम् / कर्मकरणयोरप्य [कु०] (कं. 236) / क्वचिदपि प्रयोगिनः प्रमाणसिद्धत्वानभ्युपगमे वाजिविषाणध्येव (?) प्रतिषेधोऽपि न संगच्छेतेति भावः / प्रतिषेधानुमानमिति (कं. 236) प्रतिषेधप्रतिज्ञेत्यर्थः / ननु बाधो नाम विनाशो वोत्पत्तिप्रतिबन्धो वा। नाद्यः / प्रतिज्ञायाः शब्दरूपत्वात् / शब्दविनाशे च कारणादन्यदेव क्षतेः / न द्वितीयः / कारणान्यनुपमृद्योत्पत्तनिष्प्रतिबन्धत्वात् / कारणानि-आदीनि प्रत्यक्षेणोपमृद्यंत इत्यत आह विषयापहारादिति (कं. 236) स्वविषयप्रत्यायनमात्रव्यापारस्य कथमन्यविषयापहर्तुत्वमित्याशयेन पृच्छति / (क. 236) उत्तरं तद्विपरीतेति (कं. 236) / ननु किमेतावदित्यभिप्रायेण पृच्छति तस्मिन्निति (कं. 236) उत्तरमुत्पत्यभाव इति (कं. 236) नन्वेनमेव कुत इत्यत आह प्रथमेति (कं. 236) तत्प्रतीत्यवरुद्ध इति (कं. २३६)प्रमिताविरहेणोपन्यस्यमानप्रतिज्ञावाक्यं नावधारयतीति भावः / 1 प्रायमात्रेण - कं. 1; कं. 2 / 2 एव पक्ष - कं. 1; कं. 2 / 3 स्याप्यप्रवृत्तेः - जे. 3 / 4 वति - जे. 2 / 5 विषयापहारः-जे. 1, जे. 2 / 6 परिछिन्ने -जे.१। 7 साध्यस्याणत्वस्य -भ, ब। 8 यद्वैपरीत्यं , मुष्णत्वरूपं - अ, ब, क /