________________ 558 ग्यायकन्दलीसंवलितप्रशस्तपादमायन प्रशस्तपादभाष्यम् [202] अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगत'स्वशास्त्रस्ववचनविरोधिनो निरस्ती भवन्ति / यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरोधी, घनमम्बरमित्यनुमानविरोधी, ब्राह्मणेन सुरा पेयेत्यागमविरोधी] 'वैशेषिकस्य प्रागुत्पत्तेः सत्कार्यमिति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी। म्यायकन्दली [202] अविरोधिग्रहणस्य तात्पर्य कथयति - अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्तीति / वादिना साधयितुमभिप्रेतोऽर्थः साध्य इत्युच्यते / प्रत्यक्षादिविरुद्धोऽपि कदाचिदनेन भ्रमात् साधयितुमिष्यते, तद्यद्यविशेषेणानमेयोद्देशः प्रतिज्ञेत्येतावन्मात्रमुच्यते, प्रत्यक्षादिविरुद्धमपि वचनं प्रतिज्ञा स्यात् / न चेयं प्रतिज्ञा, तदर्थस्य साधयितुमशक्यत्वात्, अतोऽविरोधिग्रहणं कृतम् / न विद्यते प्रत्यक्षादि विरोधो यस्यानुमेयोद्देशस्य असावप्रत्यक्षादिविरोधस्तस्य वचनं प्रतिज्ञा, 'यस्य तु [टि०] [202] 'अविरोधिग्रहणस्य इति :- अनुमेयोद्देशोऽविरोधी प्रतिज्ञेति भाष्ये। यथाऽनुष्णोऽग्निः इति :अत्राग्निस्तेजोऽवयवीत्यर्थः / तेन कृतकत्वं “पक्षकदेशेऽसिद्धं न भवति तेजः पर'माणूनामपक्षत्वात्। वैपरीत्यपरिच्छे। [पं०] वैपरीत्यपरिच्छेदे इति.....निश्चये सति / परस्येति = अनुमानस्य / मूले इति = संशये। पूर्वेण विषयो हूत इतिकोऽर्थः ? प्रथमप्रवृत्तेनाध्यक्षेणानुमानस्य विषयो हूत इत्यर्थः / परवाक्यं बाधाविनेत्यादि अविनाभावं हि विना हेतुरेव न युज्यते, अविनाभूतश्च बाध्यते कथमिति चोद्यार्थः / कृतकत्वादित्यस्यैवेति अत्र हि त्रैरूप्यं सदपि बाधितम् / कु०] [202] ननु नाविरुणदीति -विरोधीति व्याख्यानेऽनुष्णोऽयमग्निरितीयमपि प्रतिज्ञा स्यात्, न हीयं प्रत्यक्षम् , विरुणद्विक्षाला (?) भेदवतीत्यादिकं सा च प्रतिज्ञा न स्यादित्यत आह- न विद्यत इति (कं. 235) / ननु प्रतिपादयिषया पक्षवचनं प्रतिज्ञा साध्यानिर्देशः प्रतिज्ञेति समानतन्त्रलक्षणपर्यालोचनयाऽनुष्णोऽग्निरितीयं प्रतिज्ञव कस्मान्न स्यादित्यत आह किमनेनेति (कं. 235) यत्साधनमहती[ति] (कं. 235) अर्हकृत्य (?) चेत्यनुशासनप्रामाण्यादित्यर्थः / स एव पक्ष इति (कं. २३५)-पक्षलक्ष्येऽपि साध्यधर्मविशिष्ट इतिकृत्य चोपादानादिति भावः / ननु प्रमाणत्वे समाने उक्तोऽन्यतरस्य बाधकत्वं नियमेनेत्यत आह - अनुष्ण इति (कं. 236) - अभावस्य प्रतियोगिनिरूपणमन्तरेण दुनिरूपत्वाग्निषेधकेन प्रतियोगिग्राहकमवश्यमुपजीव्यम् / ततश्चोपजीव्यविशेषानिषेधप्रतिज्ञा नोदेतीति भावः / नन प्रतीयतां कामं प्रतियोगी तत्प्रत्ययायकं प्रमाणमिति कुत इत्यत आह प्रत्यक्षप्रतीतस्य इति 1 शास्त्रस्ववचन-दे। 2 [ ] एतच्चिह्नान्तर्गतः पाठः व्यो. भाष्ये नास्ति। 3 वैशेषिकस्य सत्कार्यम् - कं. 1; क. 2; कि। 4 गतशास्त्रस्ववचन - जे. 1, जे. 2, जे. 3 / 5 यस्य तद्विरोधो-कं. 1, कं. 2 / 6 अविरोध - अ, ब, क। 7 अनुमेयोद्देशविरोधी प्रतिज्ञे तु-म। 8 पक्षकदेशे न भवति - अ। 9 परमाणना पक्षत्वात् - अ, ब /