________________ टिप्पणपञ्जिकाकुसुमोगमाविटीकाबयोपेतम् न्यायकन्दली धर्मिणः पक्षता वास्तवी, तस्य स्वरूपेण सिद्धस्यापि प्रतिपाद्यधर्मविशिष्टत्वेनाप्रसिद्धस्य तेन रूपेण 'आपाद्यमानत्वसम्भवात् / पक्षधर्मतापि हेतोरित्थमेव, यदि केवलमेवानित्यत्वं साध्येते, भवेच्छब्दधर्मस्य कृतकत्वस्यापक्षधर्मता, शब्द एवं त्वनित्ये साध्ये नायं दोषः। यथाहुराचार्या :-- स एव चोभयात्मायं गम्यो गमक एव च / ... असिद्धेनैकदेशेन, गम्यः 'सिद्धेन बोधकः // इति / ... प्रतिज्ञाया उदाहरणमाह - द्रव्यं वायुरिति / यो वा प्रतिपद्यमानोऽपि तस्य द्रव्यत्वं न प्रतिपद्यते, तं प्रति साधयितुमिष्टेम द्रव्यत्वेनं विशिष्टस्य वायोरभिधान प्रतिज्ञा क्रियते - द्रव्यं वायरिति / ' [टि] असिद्धेनेकदेशेन इति 'असिद्धेनानित्यत्वेन स शब्दो गम्यः साध्यः सिद्धेन तु कृतकत्वांशेन साधक इत्यर्थः / [पं०] आचार्याः इति-भाट्टाः। स एवेति = धर्मी / अयमिति = शब्दादिः / स एवायं उभयात्मा भवतीति योगा। एकदेशेनेति अनित्यतादिना साध्यधर्मेण सिद्धेनेति कृतकत्वादिना साधनधर्मेण / बोधक इति गमक इत्येतावन्मात्रमुच्यते इत्यस्मात्पुरस्तादध्याहार्यम् / नानुमानिकी इति , किन्तु प्रत्यक्षेत्यर्थः / प्रत्यक्षप्रतीतस्पति-उष्णत्वस्य / तेनैवेति : प्रत्यक्षेण / तस्मिन्निति = प्रत्यक्षे / तत्प्रतीत्यवरुद्ध इति उष्णत्वप्रतीतिव्याप्ते / [कु०] ननु यत्सिसाधयिषितं तदेवाहत्य साध्यताम्, कि तद्विशिष्टोपन्यासेनेत्यत आहे - पक्षधर्मतेति (के. 236) उपयोगिनीति भावः। ---- .... यो वायुमिति (कं. 235) स्पर्शशब्दधृतिकंपैः कार्यः कारणतया मातुमिम [म]नुमानो [नम् ] पिः। यो द्रव्यत्वं न प्रतिपद्येत्, तं प्रति सिसाधयिषितद्रव्यत्वविशिष्टवायुनिदेशः - प्रतिज्ञा क्रियत इत्यर्थः / नन्वविरोधीत्यत्र विरोधाना बाधोऽभिप्रेतः / स च बलवता प्रमाणेन साध्यविपर्यय ग्रहणरूपः, अतस्तद्विषयस्य कथं साध्यतेत्यत आह बादिनेति (कं. 235) चित्रत्वात्पुरुषाभिसंधीनां क्वचिदेवमपि संभवेदित्यर्थः / १.पच्य - जे. 1, जे. 2. जे. 3 / 2 अनित्यत्वे साध्ये-जे. 1 / 3 सिद्धो न-कं. 1; कं.२। 4 प्रतिज्ञायाम् -जे. 1, जे.२। 5 असिद्धेनापि शब्दो गम्यः-अ, ब, क /