________________ 556 न्यायकन्दलीसंवलितप्रशस्तपादभाध्यम न्यायकन्दली उपनयादेव हेतोराश्रयः प्रतीयत इति चेन्न, असति प्रतिज्ञावचने तस्वासप्रवृत्तेः / 'उपनयो हि साधनस्य पक्षधर्मतालक्षणं सामर्थ्यमुपदर्शयति / न च प्रत्येतुः प्रथमसेन साधनं प्रत्याकाङक्षा, किन्तु साध्ये, तस्य प्रधानत्वात् / आकाङक्षिते साध्ये 'तत्सिद्वयङ्ग साधनं पश्चादाकांक्ष्यते, तदनु साधनसामर्थ्यमिति प्रथम साध्यवचनमेवोपतिष्ठते, न पुनरग्रत एव साधनसामर्थ्यमुच्यते, तस्य तदानीमनपेक्षितत्वात् / .. प्रतिपिपादयिषितेन धर्मेण विशिष्टो धर्माति विप्रतिषिद्धमिदम्, 'अप्रतीतस्याविशेषकत्वादिति चेत् ? सत्यम, अप्रतीतं विशेषणं न भवति, प्रतीतस्तु साध्यो धर्मः 'स इदानों पक्षे विप्रतिपन्नं प्रति ज्ञापनाय धर्मिविशेषणतया प्रतिज्ञायते / अत एव च [टि.] साधयितुमुपक्रान्तमतस्तस्यैव वास्तवी पक्षता, तदाधारत्वात्तु पर्वतस्यौपचारिकीत्ति / अत एव हेतोः पक्षधर्मताऽपि न वास्तवी, तथाहि 'अनित्य. शब्दः कृतकत्वाद' इत्यत्र साध्वत्वादनित्यत्वस्यैव वास्तवी. पक्षता तस्य च धर्मः कृतकत्वं न भवति, यस्य च शब्दस्य कृतकत्वं धर्मस्तस्य पक्षतौपचारिकीति न हेतोास्तवी 'पक्षधर्मताऽपि भवतीत्याशक्याह अत एव धर्मिणः पक्ष (धर्म)ता. इत्यादि / . [पं०] अविशेषकत्वादिति न हि अप्रतीतं विशेषणं भवितुमर्हति / सपक्षे इति महानसादि / धर्मिणः पक्षता वास्तवी इति ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्माभिधीयते इति वचनात् / तस्येति = पर्वतादेः / प्रतिपाद्यधर्मेत्यादि प्रतिपाद्ये धर्म वह्निमत्वादिः / "पच्यमानत्वसंभवादिति व्यक्तीक्रियमाणत्वघटनात् / अनित्यत्वं साध्यते इति, अस्मात्पुरस्तादित्यध्याहायम् / [कु०] ननु यदि प्रधानत्वात्साध्यमेवाकांक्षितं लहि ततोऽन्यत्र साधके किमिति प्रवर्तत इत्यत आह-आकांक्षित इति (क. 235) - अनेन प्रकारेणापि सिसाधयिषितधर्मविशेष्यहेत्वाश्रयः उपनयमेऽसमर्थमि (र्थः )ति द्र (ष्ट) व्यम / तव्यवहितमप्युपयुज्यते। अव्यवहितमेव वा। आद्ये आंतरालिकबाधव्याकुलितो नांजसा व्यवहितः स्यात् / द्वितीये व (त्व ) नज्ञायां वर्तामहे वयमप्यव्यवधानेन विवादविषयमपनीयसाधनमभिधानीयमिति वदामः / न चाव्यवहितं प्रकरण प्रतिद्देति चोच्यते इति (कं. २३५)-कुतः तस्या: साध्यानंगता / ननु प्रमितमेव विशेषणं प्रतीतिरेव विशेष्यबुद्धिप्रयोजिका, न तु प्रमितिः, इतरथा सशयविपर्ययौ दत्तजलाञ्जल (लो) स्याताम् / इह च प्रतिवादिनि आप्तस्व सदे [हेs] पि वादिवचनाद्विशेषण प्रतोयत एवेत्याशयेन परिहरति सत्यमिति (कं. 235) / किं च प्रमितस्यैव विशेषणत्वे पक्षस्य च दुर्वचत्वादनुमानप्रवृत्तिरेव न स्यादित्याह - अत एवेति (कं. 235) अप्रसिद्धस्येति (कं. 235) अनिश्चितस्येत्यर्थः / 1 उपनय:-कं. 1; कं. 2 / 2 न प्रत्येतु-कं. 1; कं.२। 3 तत्सिद्धयर्थं पश्चात्साधनमाकाङ्क्षते-कं. 1, कं. 2 तत्सिद्धयङ्ग साधनं पश्चादाकाङ्क्षति-जे. 1 जे 2 / 4 प्रतीतस्य विशेषकत्वात् -जे. 1, जे. 2 / 5 सपक्षेकं. 1; कं. 2 / 6 एव धर्मिणः - कं. 1, कं. 2; जे.३। 7 पक्षधर्मता - अ, ब, क। 8 पक्षधर्मतापि न भवती - अ, ब, क / 9 पक्षता - मु. जे. 1, 2, 3:10 इदं प्रतीकं कं-पुस्तके नास्ति। ..