________________ टिप्पणपत्रिकाकुसुमोदगमाविटीकात्रयोपेतम् 555 न्यायकन्दली यदि हेतुरहितमद्देशमात्रं प्रतिज्ञा 'नैतस्याः साध्यसिद्धिरस्तीति असाधनाङ्गत्वान्न प्रयोगमर्हति / यथा वदन्ति तथागता:-- शक्तस्य सूचकं हेतुर्वचोऽशक्तमपि स्वयम् / . साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् // इति। 'अत्राह-अपदेशविषय'मापादनार्थमिति / अपदेशो हेतुस्तस्य विषयमाश्रयमापादयितुं प्रतिपादयितुं 'प्रतिज्ञा / खल यत्र क्वचन साध्यसाधनाय हेतुः प्रयुज्यते, तस्य सिद्धत्वात्, अपि तहि कस्मिश्चिद्धर्मिणि प्रतिनियते, तस्मिन्ननुपम्यस्यमाने निराश्रयो हेतुनं प्रवर्तेत / तस्याप्रवृत्तौ न साध्यसिद्धिरतः प्रतिज्ञया मिग्राहकं प्रमाणमुपदर्शयन्त्या हेतोराश्रयो धर्मी सन्निधाप्यते, इत्याश्रयोपदर्शनद्वारेण हेतुं प्रवर्तयन्ती प्रतिज्ञा साध्यसिद्धरङ्गम् / तथा च न्यायभाष्यम् - "असत्यां प्रतिज्ञायाम'नाश्रया हेत्वादयो न प्रवर्तरम्" इति / [टि०] शब्दः पारम्पर्येण साध्यसिद्धी शक्तः पक्षोक्तिस्तु साध्यमर्थमभिधत्ते। स चार्थः स्वयमसिद्धः साध्यत्वादेवेति पारम्पर्येणापि पक्षप्रतिपादकवचनं साध्यसिद्धौ न समर्थम् / न तु प्रतिपादयिषितेन इति किन्तु प्रतिपन्नधर्मविशिष्ट इति वाच्यम्। प्रतीतस्यैव विशेषणत्वादिति / तत्त्वोपप्लववादिनी हनुमानमपमानयन्ति यदुतानुमाने तावत्पक्षस्य पक्षता मवास्तवीं साधयितुमुपक्रान्तो हि पक्षः न च पर्वत: साधयितुमुपक्रान्तः सिद्धत्वात् / वह्निमात्रं तु असिद्धत्वा [पं०] अत्र पारम्पर्येणापि साध्यसिद्धौ न समर्था / कुतः? साध्याभिधानात् / पक्षो हि साध्यमग्निमभिधत्ते / न पुनः सिद्ध धर्म साध्यं च गमकं व्यभिचारादिति पारम्पर्येणापि साध्यसिद्धौ समर्था न भवतीति श्लोकार्थः / आश्रयमिति = पर्वतादिकम् / तस्येति = हेतोः / अपि स्विति / "किन्तु साधनसामर्थ्यमिति उपनयः। अप्रतीतस्येति - धर्मस्य / [कु.] च्यमानमनापेक्षिताच्च वा(?)नादिमाणं स्वार्थमपि न प्रतिपादयति / चक्षुमान(?)प्रति नाद्यप्रशंसावत् / तत्कुतोऽयं पर्वतोऽग्निमानिति वचनमाक्षिपेत् / स्वार्थप्रतिपादनावान्तरकार्यत्वनियमादुपपादकाक्षेपस्येति भावः। आश्रयोपदर्शनद्वारेणापेक्षितनिर्देशेन हेतोजिज्ञासामुत्पादयं (य)ति - श्रोतुरवधानं कुर्वतीत्यर्थः / उपनयादेवेति (कं. 235) - उदाहरणान्तर उपन्यस्यमानतया उदाहरणसुसाध्यविशिष्टो हेतोराश्रय उपनयेन 'प्रतिपाद्यत इत्यर्थः / सत्यमेतत्, यदि प्रतिज्ञामन्तरेणोपनयप्रवृत्तेः वचनमस्तीत्याशयेन परिहरति नेति (कं. 235) - कुतो न प्रवृत्तिरित्यत आह उपनयरो हीति (कं. 235) / 1 नव तस्याः -कं. 1; कं.२। 2 तत्राह-कं. 1, कं. 2 / 3 मापादयितुं-कं.१; कं. 2 / 4 अत्र कं. 2 संपादकेन कल्पितः पाठः यथार्थत्वात् स्वोकृतः-सं.। 5 तु - कं. 1, कं. 2 / 6 निराश्रया - जे. 1, जे. 2 / 7 पादक-ड। ८.तु प्रतिपादयिषितेनेति - अ, ब, डा प्रतिपादयिषितेन-मु. 9 तावत्पक्षता - अ, ब / 10 न बास्तवी-ड। 11 किन्तु -........ तदनु साधनसामर्थ्यम्-कं /