________________ 554 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [201] अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः / तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा। 'प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषयमापादनार्थमुद्देशमानं प्रतिज्ञा, यथा द्रव्यं वायुरिति / न्यायकन्दली [201] पञ्चावयवं वाक्यमित्युक्तम् / के पुनस्ते 'पञ्चावयवाः? तत्राह-अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः / पुनःशब्दो वाक्यालङ्कारे। तत्र तेषां मध्येऽनमेयोद्देशोऽविरोधी प्रतिज्ञा / एतत् स्वयमेव विवृणोति -प्रतिपिपादयिषितेत्यादिना। प्रतिपादयितुमिष्टो यो धर्मस्तेन विशिष्टो धर्मो अनुमेयः पक्ष इति कथ्यते / तस्य यदुद्देशमात्रं सङ्कीर्तनमात्रं साधनरहितं सा प्रतिजेति / यथोपदिशन्ति सन्त : "वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता" इति / [टि.] ( // अथ परार्थानुमानाङ्गपञ्चावयवनिरूपणे प्रतिज्ञानिरूपणम् // ) [201] शक्तस्य सूचकम् इति - हेतुवचनं साध्यसिद्धि प्रत्यशक्तमपि साध्यसिद्धी शक्तस्य धूमाद्यर्थस्य सूचकं . बौद्धमते शब्दाना मर्थसूचकत्वादिति / धूमशब्देन हि धूमरूपोऽर्थः सूच्यते-अर्थेन च साध्यं साम्यते इति हेतुप्रतिपादक: [पं०] [201-202] सन्त इति भाट्टाः। तस्या इति पञ्चम्यन्तं पदम् / शक्तस्येत्यादि श्लोकः / व्याख्या-हेतुवचोरि[ति] धूमादित्यादिरूपं हेतुवचनं साध्यसिद्धं प्रति स्वयमशक्तमपि स च साध्यसिद्धौ शक्तस्य धूमाद्यर्थस्य सूचकम् / एतावता हेतुवचनस्य परम्परया साध्यसाधनक्षमत्वं प्रतिपादितं पूर्वार्धे / उत्तरार्धे तु पारम्पर्येण नाप्यलमिति / [कु०] परार्थमनुमानमित्यनयोः पदयोः मुख्यवृत्ती सामानाधिकरण्यं नारोहतीयं भ्रान्तिविषयमुपचारं निषेधस्वाभिमतं च यत्परार्थमनमानमित्यौपचारिक सामानाधिकरण्यं दर्शयन्समाधत्ते अत्र समाधिरिति (. 233) अत्राप्यूपचारेऽतिप्रसंगं चोदयति / प्रयोजनाभावे लौकिक एव प्रचारः सोढय इत्याशयेन परिहरति न प्रसंग इति (कं. 233) / / [201] पुनः शब्दो वाक्यालंकार इति (कं. २३४)-विभागस्य न्यूनाधिकसंख्याव्यवच्छेदपरतया शब्दरूपाणां जिज्ञासादीनामवयवत्वनिरासावधारणार्थ पुनः शब्दो न भवतीत्यर्थः / वाक्यस्य वाऽलंकारो वाच्यभेदप्रतिपादनं यथा यज्ञदत्तो भुङ्क्ते, देवदत्तः पुनरधीते इति / स्वरमेव इति (कं. 234) - प्रत्याम्नायादो व्यभिचारपरिहारायेति शेष: शक्य (क्त) स्य सूचकमिति (कं. 234) - साधनं हि साध्येन विना अपर्यवस्यते तदाक्षिपतीत्यर्थः / नन्वाक्षिप्तो विषयीभविष्यतीत्यत आह - न(?) खल्विति (कं. 234) / अयं पर्वतोऽग्निमान्नवेति संशयानं प्रति धूमवत्त्वादित्यु 1 प्रतिपादयिप्यतः-दे। 2 मापादयितुं-कं. 1, कं. 2; कि.। 3 अवयवाः-जे. 1, जे. 2 / 4 मासूचकस्वादिति-अ, ब /