________________ टिप्पणपंजिकाकुंसुमोद्गादिष्टीकात्रयोपेतम् 553 न्यायकन्दली [ 200] प्रकृतमनुसरामः / अस्त्वेवं पदानामर्थप्रतिपादनम्, इदं तु न सङ्गच्छते 'परार्थमनुमानमिति / लिङ्ग तज्जनितं वा ज्ञानमनुमानम् / न च लिङ्गस्य ज्ञानस्य च परार्थत्वम् / अनुमानवाचकस्य शब्दस्य परार्थत्वादनुमानं परार्थ मुच्येत चेत् प्रत्यक्षवाचकस्यापि शब्दस्य परार्थत्वात् प्रत्यक्षमपि परार्थमुच्येत ? तदुक्तम् .ज्ञानाद्वा, ज्ञानहेतोर्वा नान्यस्यास्त्यनुमानता। . . ., तयोश्च न परार्थत्वं प्रसिद्ध लोकवेदयोः // , वचनस्य परार्थत्वादनुमानपरार्थता। प्रत्यक्षस्यापि पारायं तद्द्वारं किं न कल्प्यते // इति / 1. अत्र 'समाधि:-न शब्दस्य परार्थत्वात् 'तद्वाच्यमनुमानपरार्थमिति वदामः, अपि तु यस् परार्थ पञ्चायवं वाक्यं तल्लिङ्गप्रतीतिद्वारेणानुमितिहेतुत्वादनुमानमिति ब्रूमः / नन्वेवमपि लिङ्गप्रतिपादकस्य प्रत्यक्षस्यानुमान तोपचारप्रसङ्गः ? न प्रसङ्गस्तत्र लौकिकशब्दप्रयोगाभावात् / .. ......... ..... [टि०] [200] इदं तु [न] सङ्गच्छत इति :- इदं वक्ष्यमाणम् / न च लिङ्गस्य इति :-धूमादेवू मादिज्ञानस्य च परार्थत्वं नास्ति धूमस्य'ज्ञानद्वारेणोपयोगात, ज्ञानस्य च प्रमात निष्ठत्वात् / पर आचार्योतरमाशङ्कते अनुमान वाचकस्य इति साध्याविनाभूतलिङ्गप्रतिपादकानामवयवानां. परार्थत्वादनुमानेऽपि परार्थमुपचयंते इति भावः / प्रत्यक्षवाचकस्याः इति घट: क्कास्तीति पृष्टे प्रत्यक्षोऽयमित्त्युत्तरस्य प्रत्यक्षवाचकत्वम् / नन्वेवमपि इति येन प्रत्यक्षेण धूमादि गृह्यते तस्यापि पारम्पर्येणानुमानकारणत्वात् / उत्तरं लौकिकेति आरोपे हि सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपो न खल यया "माणवके पाचकत्वारोपस्तथा पाचकेऽपि.माणवकत्वारोप इति भावः / ( // इति परार्थानुमाननिरूपणम् // ) .... . [पं०] [200] अनुमानपरार्थतेति-अस्मात्पुरस्तादध्याहार्यम् (! ) / प्रत्यक्षस्यापि पारायंमिति-पश्य मृगो धावतीत्यादौ / तदद्वारमिति वचनपरार्थत्वद्वारायातम् / लिंगप्रतिपादकस्येति लिंगगमकस्य / लौकिकशब्देति-अत्र लोक. प्रामाणिकलोके द्रष्टव्यः / .. / .. . [कु०] [200] इह् यदनुमानं तत्परार्थमित्युच्यते इति विपर्यस्त आक्षिपति इदं त्विति ( के. 233) / अनुमानं हि किं परार्थशब्देन मुख्यया वृत्त्योच्यते, उपचारेण वा। नाद्य इत्याह - लिङ्गं तज्जनितं वेति (कं. 233) न द्वितीय इत्याह - अनुमानवाचकस्येति (कं. 233) प्रत्यक्षवाचकस्येति (कं. 233) / इह घटे किं प्रमाणमिति प्रश्ने सति किमत्र पृच्छयते चक्षुरेव प्रमाणमिति प्रतिपादितम् / प्रत्यक्षमपि परार्थमुच्यतामित्यर्थज्ञानहेतोरिति ज्ञानविषय(या)न्वयाल्लिगादित्यर्थः / 1 परार्था-कं. 1; कं. 2 / 2 मुच्यते - कं. 1; कं. 2, जे. 3 / 3 प्रति समाधिः - जे. 1, जे. 2 / 4 तद्वारमनुमानपारार्थ्य-कं. 1; कं. 2 / 5 तावतार-कं.१; कं. 2 / 6 परावर्तत्व-अ, ब / 7 निष्ठितत्वात -अ, ब, क / 8 वाचस्य-अ, ब, 9 इत्यर्थः-छ। 10 नुसरणं ननुसरणं मित्तमस्ती-अ। 11 माणवकेऽपि माणवकत्वारोप इति भाव:-अ, ब, क / 7. त्वं ननुसरण मिति- / / निष्तित्वात