________________ 552 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली क्रियाकरणादिष्विति तेषां प्रत्येक व्यभिचारेऽपि गोशब्दस्य प्रयोगदर्शनात् / तेनायं गोशब्दः श्रूयमाणोऽभ्यासपाटवादव्यभिचरितसाहचर्य ककुदादिमदर्थमात्रं स्मारयति, न क्रियाकरणादीनीति चेत् ? एवं तहि यस्य शब्दस्य यत्रार्थे साहचर्यनियमो गृह्यते तत्रैव तस्याभिधायकत्वं नान्यत्रेत्य'नन्वितार्थाभिधानेऽपि समानम् / न च स्मरणमनुमानवत् / साहचर्यनियममपेक्ष्य प्रवर्तत इत्यपि सुप्रतीतम्, तद्धि संस्कारमात्रनिबन्धनं प्रतियोगिमात्रदर्शनादपि भवति / तथाहि - धूमदर्शनादग्निरिव रसवत्यादिप्रदेशोऽपि स्मयते, तद्यदि गोशब्दः सहभावप्रतीतिमात्रेणैव गोपिण्डं स्मारयति, गोपिण्डप्रतियोगिनोऽपि पदार्थान कदाचित् स्मारयेत् / नियमेन तु गोपिण्डमेव स्मारयंस्तद्विषयं वाचकत्वमेवावलम्बते, तथासत्येव नियमसम्भवात् / किञ्च यथा वाक्ये पदानामन्विताभिधामं तथा पदेऽपि प्रकृतिप्रत्यययोरन्विताभिधानमिच्छन्ति भवन्तः, ताभ्यां चेत् परस्पराम्वितः स्वार्थोऽभिहितः कस्तदन्यः पदार्थो यः पदेन पश्चात् स्मर्यते ? तदेतदास्तां नग्नाटकपक्षपतितं वचः / [टि०] तत्स्मरणं, प्रतियोगी प्रतिसम्बंधि (धी) धूमादिगोपिण्डादि [:] च, तन्मात्रदर्शनादविनाभावाभावेपीत्यर्थः / तदेतद् इति :- नग्नाटा मङ्गल'पाठकानुचरास्तत्पक्षपातितमसद्भूतार्थत्वात् / [पं०] पुनरविनाभावो न गृहीत इत्यर्थः / व्यभिचारेऽपीति कदाचित करणत्वं कदाचित्कार्यत्वमित्यादि व्यभिचारः / यत्रार्थे इति = गवादौ / अनन्विताभिधानेऽपीति अभिहितान्वयवादे / अनुमानवदिति ब्यतिरेकिदृष्टान्तः / प्रतियोगिमात्रदर्शनादिति आनयनादिक्रिया प्रतियोगिनो गवादेरेव दर्शनात् / सहभाव प्रतीतिमात्रेणेति न तु वाचकत्वेनेत्यभिप्रायः / पदार्थानिति - आनयनादीन् / तथासत्येवेति वाचकत्वेसत्येव न तु स्मारकत्वे / पदार्थानां केवलं पदार्थस्मारणं पुनः दूषयति यथा वाक्ये - इत्यादिना नग्न [ना]टकपक्षपतितमिति नग्ननाटकामंगलपाठकानुचरास्तत्पक्षपतितमसंगतार्थत्वादनियतपक्षग्राहीत्यर्थः / परवाक्यं-अस्त्वेवमित्यादि / एवमिति-अभिहितान्वयवादिमतेन / प्रत्यक्षवाचकस्येति-घट: क्वेति पष्टे प्रत्यक्षोऽयमित्युत्तरस्य प्रत्यक्षवाचकत्वम् / ज्ञानहेतोरिति लिंगात् / वचनस्य परार्थत्वादिति-अस्याद्यः( ! ) अथेत्यध्याहार्यम् / कु०] अन्योन्याश्रयत्वमिति (कं. 232) एवं चाभिधानमेव स्यादिति भावः / सर्वदेवेति (कं. 232) भवत्पक्ष इति शेषः / शंकते वृद्धव्यवहारेष्विति (कं. 232) बहुवचनेन नैकस्मिन्व्यवहारे शक्तिग्रह इति दर्शयति / परिहरति एवं तीति (कं. 232) प्रतिपादिकैः स्वार्थानां विभक्तिश्च शक्तीनां स्मरणे सति पश्चात्संसर्गरूपवाक्यार्थबोधं विहाय नान्विताभिधानं पश्याम इत्यर्थः / नियतसाहचर्य स्मरन्तीति यदुक्तं तदपि नेत्याहन चेति (कं. 233) न च पदानां स्मरणमेव व्यापार इत्याह तद्यदीति(कं. 233) / एवं पदानामन्विताभिधाने प्रसंज्ञितं दोषं प्रकृतिप्रत्ययोरतिदिशति कि चेति (कं. 233) / * नन्विताभिधानेऽपि - कं. 1, कं. 2; जे. 2, जे. 3 / 2 धूमादिर्गोपिण्डादि च-अ। 3 पावका - अ। .