________________ टिप्पणपञ्जिफाकुसुमोदगमादिटीकात्रयोपेतम 551 न्यायकन्दली अत्र निरूप्यते - यदि गामानयेत्यादिवाक्ये गामिति पदेनैवानयेत्यान्वितः स्वार्थोऽभिहितस्तदानयेतिपदं व्यर्थम्, उक्तार्थत्वात् / आनयेतिपदेनानयनार्थेऽभिहिते सत्यानयेत्यान्वितः स्वार्थो गोपदेनाभिधीयते, तेनानयेति पदस्य न वैयर्यमिति चेत् ? तानयेति पदं केवलं स्वार्थमात्रमाचक्षाणमनन्विताभिधायि प्राप्तम् / यथा चेदमनन्वितार्थ तथा पदान्तरमपि स्यादिति दत्तजलाञ्जलिरन्विताभिधामवादः / 'अथानयेति पदेनापि पूर्वपदाभिहितेनार्थेनान्वितः स्वार्थोऽभिधीयते, तदा यावत् पूर्वपदं स्वार्थ नाभिधत्ते तावदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति / यावच्चोत्तरपदं स्वार्थ नाभिधत्ते, तावत् पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न भवतीत्यन्योन्याश्रयत्वम् / अथ मन्यसे-प्रथमं पदानि केवलं पदार्थ स्मारयन्ति, पश्चादितरेतरस्मारितेनार्थेनान्वितं स्वार्थमभिदधतीति, ततो नेतरेतराश्रयत्वम् / तदप्यसारम्, सर्वदैव हि पदान्यन्वितेन 'स्वार्थेन सह गृहीतसाहचर्याणि नानन्वितं केवलं पदार्थमात्रं स्मारयितुमीशते, यथानभवं स्मरणस्य प्रवृत्तेः। वृद्धव्यवहारेष्वन्वयव्यतिरेकाभ्यां गोशब्दस्य ककुदादिमदर्थे नियमो गृहीतो न [टि०] अत्रके तावद् इति :- अन्विताभिधानवादिनः प्राभाकराः - इत्यर्थः। तेषां प्रत्येकम् इति :- कदाचित्करणत्वं कंदाचित्कर्मत्वमिति व्यभिचारः। तन्मतमभ्युपगम्य साम्यमापादयति एवं तहि इति / “अथ गोपिण्डस्मरणवत् कारणादिस्मरणमपि प्रसञ्जयिष्यन्नाह न च स्मरणम् इत्यादि / साहचर्यनियमोऽविनाभावं स्पष्टयति तद्धि इति : [पं०] अथ श्रीधरो मीमांसकं पृच्छति ननु किं पदानि (कं. 232.6) इत्यादि / प्रत्येकमेककमर्थ प्रतिपादयन्ति वाक्यार्थस्य लिङ्गमिति (कं. 232.6) अत्र प्रतिपादयन्तीति जसन्तं पदम् / प्रतिपादयन्ति 'सन्तीत्यर्थः / अनेन च वाक्येनाभिहितान्वयवादिमतः सूचा (चितः) / 'कि चेति-अनेनाभिधानवादं प्रतिक्षिपन्नभिहितान्वयवादं तु स्वीकुर्वन श्रीधरः प्राह -अत्र निरूप्यते इति-अत्रान्विताभिधानवादे विचारः क्रियते इत्यर्थः / परः प्राह-आनयेत्यादि / स्वार्थति - गोत्वम् / पूर्वपदाभिहितेनेति अत्र पूर्वपदं गामिति / अर्थेनेति '...... अनुभवं स्मरणस्य प्रवृत्तरिति अनुभवश्वान्वितानामेव ... इति भावः / परवाक्यं वृद्ध इत्यादि / गोशब्दस्य ककुदादिमदर्थे नियमो गृहीत इति अन्वितत्वे सत्यपि गोशब्दस्य ककुदादिमत्येवार्थेऽविनाभावो निश्चित इत्यर्थः। न क्रियाकरणाविध्विति आनयनबन्धनादिषु [कु०] पूर्वपक्षमाह अत्रक इति (कं. २३२)-सिद्धान्तमाह अत्र निरूप्यत इति (कं. 232) / सम्बन्धप्रतीतिः सम्बनिप्रतीति विना नोपपद्यते / तत्रान्वितार्थमपि दधत्पदं सम्बन्धिनमपि कि स्वयमेव बोधयति, पदान्तरप्रत्यायितेन वान्वितं स्वार्थमात्रम् / नाद्य इत्याह यदीति (कं. 232) / द्वितीयमुत्थाप्य दूषयति आनयेति (कं. 232 पदेनेति (कं. 232) पया चेति (कं. 232) / गामिति पदमन्विताभिधायिपदत्वादानयेति पदवदित्यन्विताभिधायि किमपि न स्यादित्यर्थः / 1 नयेति-वाक्ये-जे. 1, जे. 2 / 2 यदा-कं. 1; कं. 2 / 3 पदार्थेन-कं. 1; कं. 2; पदार्थेनैव-जे. 3 / 4 समापादयति-अ, साम्यसमापादयति-ब। 5 अथा-अ, ब / 6 विभाव-अ / 7 अतः पराणि कानिचित्पत्राणि '-'अ' पुस्तके नोपलभ्यन्ते / 8 किंवा-कं. 9 अत्र ब पुस्त के एका पङ्क्तिः नष्टा /