________________ 550 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली नाम 'प्रमाणमस्ति मीमांसकानाम् / नापि वाक्यार्थप्रतिपादनाय पदैः प्रत्येकमभिधीयमानानां पदार्थानां वाक्यार्थप्रतिपादनशक्तिराविर्भवति, प्रमेयप्रतीतिमात्रव्यापारस्य प्रमाणस्य प्रमेयशक्त्याधायकत्वाभावात् / तस्मात् पदार्था वाक्यार्थं प्रतिपादयन्तो लिङ्गत्वेन वा प्रतिपादयेयुरन्यथानुपपत्त्या वा, उभयथाऽप्यशाब्दो वाक्यार्थः स्यात् / . ननु किं पदानि प्रत्येकमेकैकमर्थं प्रतिपादयन्ति वाक्यार्थस्य लिङ्गम् ? किं वा.. परस्परान्वितं स्वार्थ बोधयन्ति ? अत्रके तावदाहुः - व्युत्पत्त्यपेक्षया पदानामर्थप्रतिपावनम् / व्युत्पत्तिश्च गामानय गां बधानेत्यादिषु वृद्धव्यवहारेषु 'क्रियान्विते कारके, कारकान्वितायां च क्रियायाम, न स्वरूपमात्रे। अतः परस्परान्विता एव पदार्थाः पदैः प्रतिपाद्यन्त इति। टिका प्रमेय प्रतीतावेव व्यापारो न पुनः 'पदार्थरूपे प्रमेये वाक्यार्थप्रतिपादनशक्त्याधायकत्वेऽपीत्यर्थः / अथ तन्मतमेवोपसंहरति तस्मात्पदार्था इति :-लिङ्गत्वेन तावद् विवादाध्यासिताः पदार्थाः परस्परसंसर्गवन्त आकाङ्क्षादिमत्त्वे सति आप्तप्रणीतपदार्थत्वात् सम्प्रतिपन्नकपदार्थवद् इति / अन्यथानुपपत्त्या तु आकाङ्क्षादिमत्त्वे सत्याप्तोक्तपदार्थत्वं "परस्परसंसर्गमन्तरेणान"पपद्यमानं संसर्गमाक्षिपतीति / इत्येवं पदार्थस्य वाक्यार्थप्रतिपादने पृथकप्रमाणत्वं निराकृत्य . "अनुमानार्थापत्तित्वेऽपि दूषणमाह उभयथाप्यशाब्द इति / [40] न हि पदार्थो नाम"प्रमाणमस्ति मीमांसकाना (कं. 232.1) मिति-किन्तु पदान्येव वाक्याथं प्रतिपादयन्ति / वैशेषिका हि पदार्थेभ्यो वाक्यार्थप्रतीतिमिच्छन्ति, मीमांसकास्तु पदेभ्य इति भावार्थः / प्रमेयप्रतीत्यत्र (कं. 232.3) प्रमेयः पदार्थः / प्रमाणस्येति (कं. 232.4) पदलक्षणस्य / मीमांसका वैशेषिकं पृच्छन्ति तस्मात् पदार्था (कं. 232.4) इत्यादि / लिङ्गत्वेनेति (कं. 232.5) अग्निधूमादौ। अन्यथानुपपत्त्येति (कं. 232.5) चन्द्रोदयः समुद्रवृद्धयादौ / मशाब्द इति (कं. 232.5) आर्थ एवेत्यर्थः / [कु०] ननु यथा स्वरूपेण प्रमाणस्यापि धूमस्य लिंगतयाऽनुसंधीयमानावस्थायां प्रमाणत्वं तथा पदार्थानामपि पदैः प्रतिपाद्यमानानां प्रमाणत्वं भविष्यतीत्यत आह नापीति (कं. 232). भवेदप्येवं यथा व्याप्तिपक्षधर्मतानुसंधानं धमस्येतिकर्तव्यता। एवं पदैः प्रतिपादनमपि यदि पदार्थानामिष्टि(ति)कर्तव्यता न स्यात्, न चैवं पदकार्यस्य ज्ञानस्य पदार्थस्वरूपमात्रविषयत्वादतीन्द्रियायाश्व शक्तेरनङ्गीकारादित्यर्थः / यद्यपि योग्यान्वितपदार्थावच्छिन्नविवक्षानुमानेऽपि न काचिद्दर्शनजातिरस्माकं तथाप्युपपत्तिरनुसर्तव्येति विचारमारभमाणस्तत्पूर्वाङ्ग संशयमाह-ननु किमिति (कं. 232) 1 प्रमाणान्तर - कं.१ के. 2 / 2 प्रतिबोधयन्ति - जे. 1 / 3 क्रियान्वितेषु कारकेषु - कं. 1, कं. 2 / 4 वा-कं. 1, कं. 2 / 5 प्रतीवेव-अ। 6 पदार्थरूप-अ, ब / 7 प्रमेय-अ, ब, क / 8 धाय केऽपीत्यर्थः - अ, ब / 9 आकाङ्क्षामत्वे- अ। 10 परस्य संसर्ग-अ, ब / 11 नुपद्यमानं-अ, ब / 12 आनुमनोऽपित्ति - अ, ब / 13 प्रमाणान्तर - कं. 1 /