________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 549 न्यायकन्दली स्वोक्तं विवृणोति - 'पञ्चावयवेनैवेत्यादिना। द्वयवयवमेव वाक्यमित्येके / व्यवयवमित्यपरे / तत्प्रतिषेधार्थमेवकारकरणम्-पञ्चावयवेनैवेति / प्रतिपाद्येऽर्थे यस्य संशयोऽस्ति स संशयितः, यस्य विपर्ययज्ञानं स विपरीतः, यस्य न संशयो न विपर्ययः 'किन्त्वज्ञानमात्रं सोऽव्युत्पन्नः, त्रयोऽपि ते प्रतिपादनार्हाः, तत्त्वप्रतीतिविरहात् / [199] यो यानि पदानि समदितानि प्रयङक्ते, स तत्पदार्थसंसर्गप्रतिपादनाभिप्रायवानिति सामान्येन स्वात्मनि नियमे प्रतीते पश्चात् पदसमूहप्रयोगाद्वक्तुस्तत्पदार्थसंसर्गप्रतिपादनाभिप्रायावगतिद्वारेण पदेभ्यो वाक्यार्थानमानं न तु पदार्थेभ्यस्तत्प्रतीतिः। नहि पदार्थो [टि०] [199] यो यानि पदानि इतिः-आप्तत्वे सति तत्पदोच्चारकत्वाद् इति हेतुः / ननु यथा पदैः पदार्थः प्रतिपाद्यते तथा 'पदार्थे वाक्यार्थप्रतिपादिका शक्तिरपि क्रियते इत्यत आह-नापि वाक्यार्थेति शब्दरूपस्य हि 'प्रमाणस्य पदार्थरूप [पं०] यवयवमिति (कं. 231.20) व्याप्ति: पक्षधर्मता चेति द्वावयवौ यस्य तत् / एके (कं. 231.21) इति सौगताः / अवयवमिति (कं. 231.21) पक्षहेतुदृष्टान्ताख्यस्त्रयोऽवयवा यस्य तत् / अपरे इति (कं. 231.21) मीमांसकाः। ... [199] द्वितीयव्याख्यानवादिमतमाश्रित्याह यो यानी (कं. 231.24) त्यादि / तत्पदार्थसंसर्गे (कं. 231.25) त्यत्र संसर्गोऽन्वयः। तत्पवार्थसंसर्गप्रतिपादनाभिप्रायवान (कं. 231.25) इति पक्षः। अत्र चाप्तत्वे सति तत्पदोच्चारकत्वादिति हेतुः साक्षादनुक्तो द्रष्टव्यः / स्वात्मनि नियमे (कं. 231.25) यथाऽहमित्यविनाभावो [कु०] आप्तोक्तो हि शब्दः प्रतीतिहेतुः, पंचावयवस्य वाक्यस्याप्रयोक्तत्वेन प्रतिज्ञयैव सिद्धेः हेत्वाद्यवयववैय्यर्थ्यप्रसंगादित्यर्थः / ननु ज्ञापकोपदेशाद्भवतु ज्ञाप्यज्ञानं शाब्दम्, तर्हि वृक्षमभिसंविद्यते विद्युदित्यत्र विद्युज्ज्ञानमपि शाब्दं ज्ञानमित्यतः पक्षान्तरमाह-अपर इति (कं. 231) / __ ननु लिंगलिंगिनोऽनुभयोरपि प्रतिपाद्यत्वे वाक्य भेद स्यादित्यत आह लिंगप्रतिपादनं त्विति (कं. 231) न व्याप्तेश्च साक्षादेव साध्यम् / किमिति न प्रतिपादयतीत्यत आह - वचनमात्रेणेति (कं. 231) / पौनरुक्त्यं परिहरन्भाष्यमवतारयति-स्वोक्तमिति (कं. 231) पञ्चमित्युक्ते: प्रयोजनं कथितम् / अधिकारिप्रदर्शनं च विवरणार्थः / नन्वसुसंदिग्धोऽधिकारी, संदिग्धे न्यायः प्रवर्तते इत्युक्तत्वादितरयोस्तु कथं अधिकारः, प्रत्युत विपर्यस्तः प्रतिकलमेव साधनं प्रयुक्तेऽव्युत्पन्नः सूक्तमपि न जानाति पदाना मार्थेषु संगतिग्रहणस्याभावादिति चेत, न अभिप्रायानवबोधात् / अयमत्र अभिप्रायः, विपर्यस्तस्य जल्पवितंडाभ्यामहंकारे मलिने सांशयिकस्य सतः कारणिकेन प्रतिपादन कर्तव्यम् / अव्युत्पन्नस्यापि व्युत्पत्तिमादी कृत्वा यथाकथंचित्संशयं व्यापाद्य पश्चात्प्रतिपादनं कर्तव्यमिति / अत एवाह त्रयोऽप्यते (त्रयोऽपि ते) इति (कं. 231) / [199] उत्तरं प्रकरणं यद्यपि नास्माकमभिप्रायः / लिंगतया शब्दप्रमाणमिति वदतामनुप्रयोगि, तथापि परकीयसिद्धान्तमनुसृत्य किञ्चिन्निरूपयति यो त्र (या)नीति (कं. २३१)-अत एवोक्तं मीमांसकानामिति (कं. 232) / 1 पञ्चावयवेन वाक्येनेत्यादिना - जे. 1, जे. 2 / 2 किन्तु स्वज्ञान - कं. 1; कं. 2, किन्तु ज्ञान - जे. 3 / 3 पदार्थः - अ, ब, क / 4 प्रेमाणस्य - अ, प्रामाणस्य - ब / 5 सत्-पञ्जिका।