________________ 548 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् .. न्यायकन्दली तत्प्रतिपादिताच्च लिङ्गात् साध्यसिद्धिः। 'न तु वाक्यमेव साध्यं 'बोधयति, तस्य शाब्दत्वप्रसङ्गात् / तस्मादविनाभूतलिङ्गाभिधायकवाक्यप्रयोग एव परार्थानुमानमुच्यते / अपरे तु यत्परः शब्दः स शब्दार्थः, वाक्यं च साध्यपरम्, तत्प्रतिपादनार्थमस्य प्रयोगात् / लिङ्गप्रतिपादनं त्ववान्तरव्यापारः, वचनमात्रेण विप्रतिपन्नस्य साध्य'प्रतीतेरभावादिति वदन्त एवं व्याचक्षते-स्वनिश्चितीर्थः साध्यः, तस्य लिङ्गप्रतिपादनमेवावान्तरव्यापारीकृत्य पञ्चावयवेन वाक्येन प्रतिपादनं तत्प्रतिपादकवाक्यप्रयोगः परार्थानमानमिति / [टि०] 'द्वयवयवेति बौद्धा हि यत्सत्तत्क्षणिकं यथा घट इति व्याप्तिः, संश्च विवादास्पदीभूतो भावः इति पक्षधर्मतेत्यवयवद्वित्वं मन्यन्ते। मीमांसकास्तु शब्दो नित्य इति पक्षः, श्रावणत्वाद् इति हेतुः, शाब्दत्ववद् इति दृष्टान्तश्चेत्यवयवत्रयमङ्गोकुर्वते। [पं०] विप्रतिपन्नस्य साध्यप्रतीतेरभावादिति (कं. 231.17) साध्यभणनमात्रेण विप्रतिपन्नस्य प्रतिपत्तिर्नोपपद्यतेऽतो लिङ्गप्रतिपादनरूपोऽवान्तरव्यापार इत्यर्थः / तस्य लिङ्गे (कं. 231.18) त्यादि गद्ये तस्य पञ्चावयवेन वाक्येन प्रतिपादनमिति योगः। [p0] न चैते प्रत्येकं पदं न च पूर्ववर्णस्मृतिनिचयसहितस्यान्त्यवर्णानुभवस्य विषयपदामिति युक्तम् / स्मृतीनां च क्रमवसंस्कारकार्यत्वं नासहभावाद्विनश्यदविनश्यदवस्थयोरूपात्यंत्ये वर्णानुभयोश्च न पदं विषयः ! पूर्ववर्णसहितयोरेव तयोः पदत्वात् / पूर्ववर्णानुभवानां च तत्काले विनाशात् / न च पूर्ववर्णानुभवजनितसंस्कारसहकारिणोऽन्त्यवणं श्रवणा लन्धजन्मनः प्रत्ययस्यकस्यापादितस्मृत्यनभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्नवर्णेकार्थप्रतीतिहेतृत्वादेक पदमिति वाच्यम् / संबन्धसंवेदनाहितसंस्कारोब्दोधसमयजन्मना स्वजन्मना स्वजनितेन संस्कारेण संबन्धस्मृत्युत्पत्तिसमये विनाशात्पदार्थावबोधकत्वानपपत्तेः। तस्मान्स्मर्यमाणा एकार्थप्रत्ययेनककार्यावच्छिन्ना वर्णा एक पदम / एवं पदाम्यप्येकस्मृतिसमारूढानि चेद्वाक्यार्थः (थं) बोधयन्ति दशदाडिमानि षडपूपा इत्येवमादीनिक (कु) तो वाक्यार्थ निबोधयन्तीत्यत उक्तं प्रतिसंघीयमानेति (कं. ?) प्रतिसंधानं प्रतिपदं संधनम् / तच्च स्वार्थद्वारेणाकांक्षायोग्यतासन्निध्यधीनम् / न चैतद्दशदाडिमानीति वाक्ये समस्तीति / न ततो वाक्यार्थबोधः / तद्वदेवं भूतलस्य वाक्यस्य पञ्चभागकदेशावान्तरवाक्यान्वय वा उच्यते इत्यत एव वाक्यार्थप्रतीतेरन्यथानुपपत्तेः / तदन्यथानुपपत्त्या कल्पितस्य वाक्यस्फोटस्य निरंशतया तस्यानुपपत्तिरित्यपि निरस्तम् / न च गोरित्येकं पदमिति प्रत्यक्षेणव स्फोटसिद्धिः शंकनीया। नियतानपूर्वके नियतसंख्यकवर्णापेक्षया संकेतस्य ग्रहणादेकार्थप्रतीत्यवच्छिन्नतयाऽन्यथासिद्धिः। / ननु प्रतिपादनं प्रतिपद्यमानं प्रयोजकब्यापारः, स कथमनुमितिकरणमित्यत आह - तत्प्रतिपत्तीति (कं. 231) वाक्यप्रयोगः- प्रयुज्यमानं वाक्यमनुमानस्य वाचकत्वादनुमानमित्युपचर्यते भाष्ये तु कारकव्यापाराभिधानमुपचारे हेतुसम्बन्धं दर्शयितुमित्यर्थः। तदेतदाह परार्थानुमानं होति (कं. 231) तस्य शाब्दत्वप्रसंगादिति (कं. 231) 1 न वाक्य - कं. 1, कं.२। 2 साधयेति - जे. 1 / 3 प्रतीत्यभावात् - जे. 1, जे. 2 / 4 तार्थ:कं. 1: कं.२। 5 पादनमवान्तर-जे. 1, जे. 2, जे. 3 / 6 द्ववयवम् मु.। 7 यद्यत् - अ, ब; यत्सत्तत्-क।