________________ 57 टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [198 to 200] पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थानुमानम् / पञ्चावयवेनैव वाक्येन संशयितविपरीताव्युत्पन्नानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम्। न्यायकन्दली [198] परार्थानुमानव्युत्पादनार्थमाह-पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं 'परार्थानुमानमिति / प्रतिपादनीयस्यार्थस्य यावति शब्दसमूहे प्रतीतिः पर्यवस्यति, तस्य पञ्चभागाः समूहापेक्षयावयवा इत्युच्यन्ते / स्वयं 'साध्यानन्तरीयकत्वेन निश्चितोऽर्थः स्वनिश्चितार्थः, . साध्याविनाभूतं लिङ्गम् / तस्य पञ्चावयवेन वाक्येन प्रतिपादनं तत्प्रतिपत्तिजननसमर्थपञ्चावयववाक्यप्रयोगः परार्थानमानम् / पञ्चावयवं हि वाक्यं यावत्सु रूपेष लिङ्गस्य साध्याविनाभावः परिसमाप्यते तावद्रूपं लिङ्गं प्रतिपादयति / [20] [198] . . ( // अथ परार्थानुमाननिरूपणम् // ) 'तस्य च पञ्च इति :- ननु 'द्रव्यसमवायिकारणमवयवः, तत्कथं पक्षादिशब्दानामवयवत्वमित्याह समूहापेक्षया इति / "न तु वाक्यमेव इति :- अयं हि साध्याविनाभूतमिदं लिङ्गमित्यस्यार्थस्य प्रतिपादकमिति मन्यते / तस्य इति :साध्यस्येत्यर्थः / [पं०] अपरे स्विति (कं. 231.15) प्राभाकराः / यत्परः शब्दः [स] शब्दार्थ इति (कं. 231.16) यथा कम्बुग्रीवादिमदर्थपरो घट शब्द इति स एव कम्बग्रीवादिमानों घटशब्दस्यार्थः। साध्यपरमिति (कं. 231.16) साध्यनिष्ठम् / तत्प्रतिपादनार्थमिति (कं. 231.16) साध्यप्रतिपादनार्थम् / 'तस्येति (कं. 231.16) वाक्यस्य / [कु०] [198] ननु स्वनिश्चयार्थमनुमानमित्युक्तं तहि कथं परो बोधः, तदबोधने वा कि शास्त्रस्य प्रयोजनमिति शंकानिरासपरतया 'भाष्यमवतारयति परार्थानुमानेति (कं. 231) / नन्ववयवो नाम समवायिकारणविशेषः यथा तन्तवः पटस्यावयवा इति; समवायिकारणत्वं च द्रव्यकर्म तत्कथं गुणानामुपपद्यत इत्यत आह प्रतिपादनीयस्येति (कं. 231) / अनेनावयवसाम्यादवयवत्वं प्रतिज्ञादीनाम्, अवयवसाम्यं च वक्तनामककार्यकरत्वम् / यथा एवं पटं कुर्वन्तो बहवस्तम्तवोऽवयवाः। एवं विवक्षितार्थप्रत्ययं कुर्वतप्रतिज्ञादयः समुदायस्य वाक्यस्यावयवा समुदायिन इत्यर्थः / ननु वर्णानामाशुतरविनाशिनामपि वर्णानामेकस्मृतिसमारुढानामेककार्यकरत्वासंभवादेतदेव भाष्यवाक्यं कुतः तदेकदैव च वाक्यलक्षणं पूर्वपदस्मृतिनिचयसहितान्त्यपदस्मृतिसंकेतं स्मृत्यनुगृहीताप्रतिसंधीयमाना विशेषप्रतिपत्तिर्वाक्यमित्यन्त्यपदानुभवमित्यसंभाविलक्षणमुक्तम् / वर्णसमुदायपदस्य एकानुभवगोचरत्वासंभवात् / अनुभूयंते तु प्रत्येकं वर्णाः (नाम्)। 1 मानं विज्ञेयम् - दे। 2 पर्यस्ता- कं. 1, कं. 2, कि.। 3 परार्थमनुमान - जे. 1, जे. 2 / 4 साध्या - कं. 1; कं. 2 / 5 तस्य पञ्च मु, तस्य च पञ्च - जे 1, 2, 3 / 6 द्रव्यसमवायः कारणं समवायस्तत्कथं-अ, द्रव्यसमवायकारणं समवायस्तत्कथं - ब, द्रव्यसमवायकारणमवयवस्तत्कथं-क। 7 न वाक्यमेव मु. न तु वाक्यमेव - जे. 1, 2, 3 / 8 अस्य-कं 1 /