________________ .546. न्यायकवलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [197] 'तथवैतिह्यमप्यवितथमाप्तोपदेश एवेति / . न्यायकन्दली प्रतिषेधः। अत्यन्ताभावे तु सर्वथा असद्भूतस्यैव बुद्धावारोपितस्य देशकालानवच्छिन्नः प्रतिषेधः / यथा षट्पदार्थेभ्यो नान्यत्प्रमेयमस्तीति / यदि चात्यन्ताभावो नेष्यते, षडेव पदार्था 'इत्ययं नियमो दुर्घटः स्यात् / [197] ऐतिह्यमप्यवितथमाप्तोपदेश एव'इति ह' इति निपातसमुदाय उपदेशपारम्पर्ये वर्तते, तत्रायं स्वार्थिकः व्यञ् प्रत्ययः, ऐतिह्यमिति / वितथमैतिचं तावत् प्रमाणमेव न भवति / अवितथमाप्तवचनमेव / आप्तोप-. देशश्चानुमानम् / तस्मादवितथमैतिामनुमानान्न व्यतिरिच्यते इत्यभिप्रायः। [टि०] [197] ( // अथ ऐतिह्याप्रमाणान्तर्भावनिरूपणम् // ) ऐतिह्यम् इति इह 'वटे यक्ष 'इत्यज्ञातवक्तृकं वाक्यमंतिह्यम् / / / ऐतिह्यम् // . ( // इति अनुमाने शब्दादीनां प्रमाणान्तर्भावनिरूपणम् // स्वार्थानुमानं समाप्तम् // ) [पं०] [197-98] प्रतिपादनमिति (कं. 231.8) ज्ञापनम् / तत्प्रतिपत्तिजनन समर्थ इति (कं. 231.11) लिङ्गप्रतिपत्तिजननक्षमः / रूपेष्विति (कं. 231.12) प्रतिज्ञादिषु / प्रतिपादयतीत्यत्र (कं. 231.13) वाक्यं कर्तृ / तत्प्रतिपादितादिति (कं. 231.13) पञ्चावयववाक्यप्रतिपादितात् / तस्येति (कं. 231.14) अनुमानस्य / [कु०] वच्छिन्न इत्यर्थः / न हि रूपाभावाधिकरणत्वं प्रति वायोर्देशभेदः कालभेदो वा प्रयोजको भवति / तथा सति कस्यापि कदाचिद्रूपत्वप्रसंगात् / उपलक्षणं चैतत् / देशकालावच्छिन्नाधिकरणोप्यत्यंताभावो भवत्येव / यथेहेदानी घटो नास्ति, यथा च संग्रामस्थले जयं (य) वानन्यो भूपो नास्तीति / यथा षट्पदार्थेभ्यो इदमुदाहरणमेवं व्याख्येयम् / अवान्तरभेदं विहाय भावेष सप्तत्वसंख्या नास्तीति / अन्यथा प्रतीत्यप्रतीतिभ्यां निषेधव्याघातादियमेव च व्यावृत्तिरेवकारा इत्याह यदि चेति (कं. 230) / [197] उपदेशपारंपर्यमिति (कं. 230) अनेन शृंगग्राहिकया कस्याचिदुपदेष्टुः प्रसिद्धयभावं दर्शयति / ततश्चानिर्दिष्टप्रवक्तृकं प्रवादपारंपर्यमैतिह्यमिति लक्षणमुचितम् / अवितथामतिह्यमात्रमुपदेश एवेति प्रमाणभूतवाक्यस्वात्पित्रादिवाक्यवदिति शेषः। 4 माप्तोपदेश-कं.१; कं. 2 / 1 तथैतिह्यमपि-दे। 2 कालावच्छिन्नः-जे. 1, जे.२। 3 इत्यत्र-जे. 3 / 5 वये - अ, ब / 6 इत्यन्यात - अ। 5 समर्थ पश्चाक्य - कं 1 /