________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली यदसद्भूतं तस्य 'कथं सद्भावो यच्च सद्भूतं तस्य कथमभाव इत्यपरिचोद्यम्, कारणसामर्थ्यस्यापर्यनुयोज्यत्वात् / गव्यश्वाभावोऽश्वे च गोरभाव इतरेतराभावः / स च सर्वत्रको 'नित्यः एकपिण्डविनाशेऽपि सामान्यवत् पिण्डान्तरे प्रत्यभिज्ञानात् / 'यथा च सामान्यमदृष्टवशादुपजायमानेनैव पिण्डेन सह सम्बद्धचते, 'नित्ये च स्वभावसिद्धम्, तथेतरेतराभावोऽपि / इयांस्तु विशेषः-पिण्डग्रहणमात्रेण सामान्यग्रहणम्, 'इतरेतराभावग्रहणं तु प्रतियोगिसापेक्षम्, पररूपनिरूपणीयत्वात् / अत्यन्ताभावो यदसतः प्रतिषेध इति / इतरेतराभाव एवात्यन्ताभाव इति चेत् ? अहो राजमार्ग एव भ्रमः ? इतरेतराभावो हि स्वरूपसिद्धयोरेव गवाश्वयोरितरेतरात्मता [टि०] शेषः / असद्भूतस्यैव बुद्धावारोपितस्य इति मस्तकमात्रस्य विषाणमात्रस्य च कार्यकारणभावः प्रतीतः शशमस्तकादावारोप्य निषिध्यते, अतः प्रतियोगिनिरूपणाधीननिरूपणीयत्वमिति / अभावः // [पं०] 'नाऽसतो विद्यते भावो, नाभावो विद्यते सत' इति वस्तूत्वादविनाशाऽनभ्युपगमात् कुतस्त्यो प्रागभावप्रध्वंसाभावादिति पृच्छन्तं साङ्ख्यमाक्षिपन्नाह यदसद्भूतमित्यादिना (कं. 230.13) नित्येति (कं. 230.15) आत्मादौ / असत इति (कं. 230.19) कालत्रयेऽप्यविद्यमानस्य खरविषाणादेः / [कु०] भूतस्येति (कं. 230) उपचारं दर्शयनुत्तरमाह यस्येति (कं. 230) सा एवोत्पत्ति: पारमार्थिकी। प्रध्वंसस्य तु पूर्वावधिसद्भावमात्रेणौपचारिकीत्यर्थः / न केवलं प्रध्वंसस्योत्पत्तिरोपचारिकी, अपि तु प्रागभावस्य विनाशोऽपि तथेति दर्शयस्यभावोत्तरावधित्त्वं व्याचष्टे यथेति (कं. २३०)-नाऽसतो विद्यते भावो नाभावो विद्यते सत इति वदतां सांख्यानां मतमपन्यस्य दूषयति यदसदिति (कं. 230) / ननु यद्यसत उत्पत्तिः, शिलाशकलादंकुर: कस्मान्न जायत इत्यत आह कारणसामर्थ्यस्येति (कं. 230) सच सर्वत्रक इति (कं. 230) समवायनिरूपके भेदादेिन व्यवयित इति भावः / यदसतः प्रतिषेध इति तत्कार्यतया वा जिज्ञासितस्यैवेत्यर्थः / एवमिह भूतले घटो नास्तीत्येषोऽप्यत्यंताभावत्वेन संग्रहीतो भवति / ननु खत्मत्वमप्यसदेव कस्मान्न तनिषेधोऽप्यत्यंताभाव इति शंकते इतरेतराभाव इति (कं, २३०)-एवकारो भिन्नक्रमोऽत्यंताभाव इत्यनन्तरं द्रष्टव्यः / परिहरति अहो इति (कं. 230) इतरेतरात्मताप्रतिषेध इति (कं. 230) इतरेतरात्मतया प्रतिषिध्यते / नन्वितरस्मिन्नितरतात्मत्व अद्येवमपि स्यात् / रूपस्य चात्यन्ताभाव वायावेति भावः / देशकालानवच्छिन्नाधिकरणा 1 कथमभाव इति न परिचोद्यम् -कं.१; कं. 2 / 2 नित्य एव - कं. 1, कं. 2 / 3 यथा सामान्य - कं. 1; कं. 2 / 4 नित्यत्वं - कं. 1; कं. 2 / 5 अभावग्रहणं तु-जे. 1, जे. 2, जे. 3 /