________________ 544 म्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् न्यायकन्दली [196] स च 'चतुर्धा रूढः-प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावश्चेति / प्रागुत्पत्तेः कारणेषु कार्यस्याभावः प्रागभावः, [तत्र प्राक् कार्योत्पत्तेः पूर्वमभावो विशेषस्य प्रागभावः / स चानादिरप्यनित्यः, कार्योत्पादेन तस्य विनाशात्, अविनाशे च कार्यस्योत्पत्त्यभावात् / कः प्रागभावस्य विनाशः ? वस्तूत्पाद एवा निवृत्ते वस्तुनि प्रागभावोपलब्धिप्रसङ्ग इति चेत् ? वस्तुवद्वस्त्ववयवानामप्यारब्धकार्याणां प्रागभावविनाशलक्षणत्वात् / उत्पन्नस्य स्वरूपप्रच्युतिः प्रध्वंसाभावः / स चोत्पत्तिमानप्यविनाशी, भावस्य पुनरनुपलम्भात् / प्रागभूतस्य पश्चाद्भाव उत्पावः, प्रध्वंसस्य कः प्रागभावः ? यस्यार्थस्य यः प्रध्वंसः तस्यार्थस्य स्वरूपस्थितिरेव तत्प्रध्वंसस्य प्रामभावः / यथा वस्तूत्पत्तिरेव तत्प्रागभावस्य विनाशः, तथा प्रध्वंसोत्पत्तिरेव तत्प्रागभावस्य विनाशः / [टि०] [196] ननु 'नासतो विद्यते भावो नाभावो विद्यते सतः / ' इति वस्तूत्पादविनाशानभ्युपगमात् कौतस्त्यो प्रागभाव प्रध्वंसाभावाविति प्रत्यवतिष्ठन्ते तत्राह यवसदभूतं तस्य कथम् इति। अत्यन्ताभाव इति असतः कालत्रयेऽपीति [पं०] [196] परः पृच्छति कः प्रागभावस्येत्यादि (कं. 230.6) / श्रीधरः वस्तूत्पाद एवेति (कं. 230.7) वस्तुवदिति (कं. 230.8) घटवत् / वस्त्ववयवानामिति (कं. 230.8) कपालादीनाम् / उत्पत्तिमानिति (कं. 230.9) श्रुत्वा परः प्राह -प्रागभूतस्येत्यादि (कं. 230.10) श्रीधरः यस्यार्थस्ये(कं. 230.11) त्यादि / तत्प्रागभावस्येति (कं. 230 12) वस्तुप्रागभावस्य / 'तस्प्रागभावस्येति (कं. 230.12) प्रध्वंसप्रागभावस्य। [कु०] [196] कारणेषु कार्यस्याभाव इति (कं. 230) / ननु तदानीं भावे उत्पन्नस्य तस्य कथं स्मृतिविषयताऽस्मर्यमाणे च तस्मिन्प्रतियोगिनि तत्प्रागभावः कथं प्रत्येतव्य इति चेत्, न / तस्यापि पूर्वदृष्टघटत्वजात्याकान्ततया बुद्धावारोहात् / इतरथा घटं करिष्यामीत्यादि व्यवहारविलोपप्रसक्ते कार्योत्पादेन तस्य विनाशादिति (कं. 230) / यद्यप्युत्पद्यमानं कार्यमेव प्रागभावस्य प्रध्वंसः, तथापि तस्य कार्योत्पत्तिरुपचारादभावो भावं निवर्तयतीति च दृष्टव्या(यम्) / अविनाशे चेति (कं. २३०)-तं निवृत्तिरूपत्व इत्यर्थः / तथा चायं संक्षेप:-प्रागभावो भावकालेनानुवर्तते भावस्य तन्निवृत्तिरूपत्वादिति गूढाभिसन्धिः / पृच्छति कः प्रागभावस्येति (क. २३०)-सुकुमारमुत्तरं-वस्तूत्पाद एवेति ( कं. 230) / अभिसन्धिमुद्धाटयति निवृत्ते वस्तुनीति (कं. 230) स्वा(वस्त्व)यवानामपीति (कं. 230) प्रध्वंसस्यापीत्यर्थः / इतरथा तेषामपि विनाशे प्रागभावोन्मज्जनप्रसक्तेः / स चोत्पत्तिमानपीति (कं. 230) इ(अ)वधिमानपीत्यर्थः / स्वकारणसमवायलक्षणाया उत्पत्तेरभावात् / एवमविनाशीत्युत्तरावह्य (! ) रहित इत्यर्थः / सत्ताभिव्यंजक स्वरूपप्रच्युतेरशंकनीयत्वात् / अत्र प्रमाणमाह भावस्येति (कं. 23.) / उत्पत्तेरौपचारिकत्वमजानान: पृच्छति प्राग१ चतुर्दूहः- कं. 1, कं. 2; चतुर्धाव्यूह - जे. 2 / 2[ ] एतच्चिह्नान्तर्गतः पाठः - जे. 1, जे. 2, जे. 3 / पुस्तकेषु नास्ति। 4 प्रध्वंसाभावाविध्वंसाभावादिति-अ। 5 अभ्यन्ताभाव-अ। 6 'अ' पुस्तके 'तत्प्रागभावस्य' इति पाठः लेखकप्रमादा भ्रष्टः /