________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् ___ न्यायकन्दली ग्रहणम्, अभावविशिष्टभूतलग्रहणाच्चाभावग्रहणमिति स्वयमेव स्वस्य कारणम'भ्युपगतं स्यात् / तस्मादभावव्यतिरिक्ता प्रतियोगिसंसर्गव्यतिरेकिणी भूतलस्य त्वयापि काचिदेकाकित्वावस्थानुपगन्तव्या, यस्याः प्रतीतावभावप्रतीतिः स्यात्, सैवास्माकं नास्तीति व्यवहारं प्रवर्तयतीति। तदप्ययुक्तम्, भूतलस्वरूपग्रहणस्यैवाभावप्रतीतिहेतुत्वात्। न च सद्वितीयग्रहणेऽप्येत्प्रतीतिप्रसङ्गः, 'भूतलग्रहणवदभावेन्द्रियसग्निकर्षोप्यभावग्रहणसामग्री, कण्टकादिसद्धावे तदभावो नास्तीति विषयेन्द्रियसन्निकर्षाभावात् सत्यपि भतलग्रहणे नाभावप्रतीतिः, नहि चक्षुरालोकादिकमपलम्भकारणमस्तीति यद्यत्र नास्ति तदपि तत्र प्रतीयते / तदेवं सिद्धोऽभावः / [टि०] विषयेन्द्रियसनिक भावाद् इति-विषयोऽभावरूपः / सिद्धोऽभाव इति :-विवादास्पदमघटं भूतलमिति ज्ञानं विशेषणज्ञानकृतं विशिष्टज्ञानत्वात् सघटभतलमिति 'ज्ञानवत् / अथवा अघटं भूतलमिति शब्दो भूतलातिरिक्तार्थविषयो . भूतलातिरिक्तशब्दत्वात् सघटं भतलमिति शब्दवत् / [पं०] पुनः प्रभाकर श्वोदयति नन्वित्यादि (कं. 229.17) / अभाववादिनोऽपीति (कं. 229.17) वैशेषिकादेर्भट्टस्य वा / स्वयमेव स्वस्य कारणमिति (कं. 229.21) स्वात्मनि क्रियाविरोधदोष इत्यर्थः / अभावेन अभावग्रहणात अभावव्यतिरिक्तेति (कं. 229.22) उक्तेऽपि संशयः, अर्थाभावव्यतिरिक्ता, अर्थसद्भावयुक्तापि स्यात् अत उक्तं प्रतियोगिसंसर्गेत्यादि (कं. 229-22) / त्वयाऽपीति (कं. 229-23) हे अभाववादिन् / सैवेति (कं. 229-24) एकाकित्वावस्था। एतत्प्रतीतिप्रसङ्ग इति (कं. 229 -25) अभावप्रतीतिप्रसङ्गः / अभावेन्द्रियसन्निकर्षोऽपीति (कं. 229-26) यर्थन्द्रियान्वयव्यतिरेकानुविधायि कार्य भावे दृश्यते तद्वदभावेऽपीति भणनात् / तदभावो नास्तीति (कं 230.1) अभावेन्द्रियसन्निकर्षों नास्तीत्यर्थः / विषयन्त्रियसन्निकर्षाभावादिति (कं. 230.1) अत्र विषयोऽभावः / सत्यपि भूतलग्रहणे इति (कं. 230-1) कण्टकवत्त्वेन / सद्वितीयावस्थायामिति द्रष्टव्यम् / 'यदिति (कं. 230-2) . घटादि / सिद्धोऽभाव इति (कं. 230-3) अत्र साधनमुच्यते "विवादास्पदं भूतलमिति ज्ञानं विशेषणज्ञानकृतं, विशिष्टत्वात्, संघटं भूतलामिति ज्ञानवत्" / अथवा अघटं भतलमिति भशब्दो भूतलातिरिक्तार्थविषयो भूतलातिरिक्तशब्दत्वात् सघटं भूतलमिति शब्दवत इत्यभावसिद्धिः / [कु०] तस्य विधिविषयत्वादितीहैकत्वमित्येकाकिपर्यायादेकशब्दाद्वा भावप्रत्ययः संख्यावाचिनो वा द्वितीये विषयभेदसिद्धिः / प्रथमे तदभीष्टसिद्धिरित्याशयात्वा विकल्प्य दूषयति किमेकत्वमिति (कं. 229) प्रतिबन्ध्याऽभावव्यतिरिक्तां तद्व्यबहारसामग्री साधयितुमाह नन्विति (कं. 229) स्वयमेवेति (कं. 229) / स्वव्यावृत्तप्रतीतेश्च परस्परं कार्यकारणभावादन्योन्याश्रयत्वमित्यर्थः / प्रतियोगिसंसर्गिव्यतिरेकिणीति (कं. 229) / घटाभावप्रसंगपरिहारायेतद्विशेषणम् / यद्यप्ययं विकल्पो भावविलोपायापि प्रभवति तथाहि घटो घटवति वर्तते / तदभाववति वा आद्येन चात्माश्रयत्वं च द्वितीये विरोधः / तस्माद् घट: न क्वचिदपि वर्तत इति सुवचमेव / तथापि सुकृत्तयैव तदभिधाय स्वपक्षनिर्वाहमाह तदप्ययुक्तमिति (कं. 229) भूतलोपलंम (ग्रहण) वदिति (कं. 229) / प्रत्यक्षज्ञानविषयस्यापि सामग्यनुप्रवेशादिति भावः / अत एव भावप्रतीति दृष्टान्तीकरोतीति तहि (न हि) 'चक्षुरादीति (कं. 230) / 1 मिप्युपगतं-जे. 1, जे. 2, जे. 3 / 2 कित्वावस्थानुमन्तव्या-जे. 1; भ्युपगन्तव्या-कं. 1, कं. 2 / 3 भूतलोपलम्भवत्-जे. 1, जे.२। 4 कण्टकातिभावे च-जे.१; जे.२। 5 ज्ञानवति - अ, ब, ज्ञानं-ड। 6 यदि। 7 चक्षुरालोकादि-कं,।