________________ 542 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् . न्यायकन्दली जिक्षिते 'सत्युपलब्धिघंटाद्यभावव्यवहारं प्रवर्तयतीति / अत्रापि ब्रमः-घटावे'रभावं भूतलं च व्यतिरेक्यकाकिशब्दस्यार्थः कः समर्थितो भवद्भिर्यो हि नास्तीति प्रतिषेधधिय आलम्बनम् ? नहि विषयवलक्षण्यमन्तरेण विलक्षणाया बुद्धरस्त्युदयः, नापि व्यवहारभेदस्य 'संभवः / स्वाभाविकं यदेकत्वं भावस्य तदेवैकाकित्वमिति चेत् ? किमेकत्वं प्रतियोगिरहितत्वम् ? एकत्वसंख्या वा ? एकत्वसंख्या तावद्यावदाश्रयभाविनी भावस्य सद्वितीयावस्थायामप्यनुवर्तते / अथ प्रतियोगिरहितत्वं स्वाभाविकमेकत्वमुच्यते, सिद्धं प्रमेयान्तरम् / / नन्वभाववादिनोऽपि भूतलग्रहणमभावप्रतीतिकारणम्, अप्रतीते भूतले तत्राभावप्रतीतेरयोगात्। तत्र न तावत् कण्टकादिसहितभूतलोपलम्भात् कण्टको नास्तीति 'प्रतीतिः। अभावविशिष्टभूतलग्रहणस्याभावप्रतीतिहेतुत्वे 'चाभावग्रहणात् तदभावविशिष्टभूतल. [टि०अत्रापि बम इति:-घटाद्यभावं विशेषणत्वेन भूतलं च विशेष्यत्वेन मुक्त्वेत्यर्थः / परः प्राह नन्वभाववादिनोऽपि इति :- अभावग्रहणादभावविशिष्टेति कण्टकसहितस्य भूतलस्याभावातीतावकारणत्वात् ज्ञातकण्टकाभावस्यैवाभावज्ञ ने कारणत्वादात्माश्रयो दोषः / अर्थाभावव्यतिरिक्ता अर्थसद्भावयुक्तापि स्यादत उक्त प्रतियोगिसंसर्गव्यतिरेकिणि इति / : [पं०] घंटाघभावव्यवहारं प्रवर्तयतीति (कं. 229.10) न पुनरभावाख्यं प्रमेयान्तरमस्तीत्यर्थः / ब्रम इति (कं. 229.11) 'वयं कन्दलीकाराः। घटादेर भावमिति (कं. 229.11) विशेषणत्वेन / भूतलं चेति (कं. 229.11) विशेष्यत्वेन / 'विलक्षणाया इति (कं. 229.13) उपस्तीति बुद्धयपेक्षया नास्तीति वैलक्षण्यम् / नापि व्यवहारभेदस्यासम्भव (कं 229.13) इति अत्र विषयवलक्षण्यमन्तरेणेति योगः। ततोऽयमों विषयवलक्षण्यमन्तरेण व्यवहारभेदस्यापि सम्भवो नास्ति / प्रतिषेधे हि नास्तीति व्यवहारः, पूर्व तु अस्तीति व्यवहारः / सद्वितीयावस्था[या]मिति (कं. 229.16) कण्टकत्वदशायाम् / प्रतियोगिरहितत्वमिति (कं. 229.16) कण्टकरहितत्वम् / प्रमेयान्तरमिति (कं. 229.17) अभावः / [कु०] इति (कं. 229) / तृतीयस्माद्विशेष दर्शयितुमेकाकि शब्दं निर्बुवाणकादाचित्क[त्व] भावव्यवहारसामग्रीमुत्पादयति-तत्रैकाकीति (कं. 229) असहाये ह्येकाकिनी (नि)जन्य: शिष्यते / असहायत्वं च सहायप्रतियोगितया तदबुद्धिमपेक्षत इति भावः / निरुक्तिमात्रमतिरिच्यते तेनार्थ इत्यभिप्रायवान्परिहरति अत्रापीति (कं. 229) / ननु निरुक्तिमात्रभेदेऽपि बुद्धिभिद्यते यथा वृत्तिवाक्ययोः वृत्तौ हि संसृष्ट प्रधानं प्रतीयते / वाक्ये तु प्रधानोपसर्जनयो: संसर्गमात्रमिति इह च केवलं भूतलमिति वाक्यं तृतीयः पक्षः / चतुर्थस्त्वेकाकीति वृत्तिरिति महान्भेदम् (:) इत्यत आह न हीति (कं. 229) भेदतां शाब्दी प्रवृत्तिः / सा व्यवहारभेदानुपयोगिनी न हि राज्ञः पुरुषमानयेति चोदितस्तु ततोऽभिसंभवतीत्यर्थः / स्वाभाविकश्चेति (कं चेति) (कं. 229) / ततश्च विषयभेदोऽपि भविष्यति / 1 अनुपलब्धि-पं.। 2 रभावाद्-कं. 1, कं.२। 3 सद्भाव:-जे.१। 4 प्रतीतिरस्ति-जे.१। 5 चाभावग्रहणे तदभावग्रहणे तदभावविशिष्टभूतलग्रहणम्, तदभावविशिष्टाद् - कं. 1, कं. 2; चाभावग्रहणादभाव विशिष्टमूतलग्रहणम् / अभावविशिष्टभूतलग्रहणाच्चाभावद्रहणम्-जे. 3; चाभावग्रहे तदभावविशिष्टभूतलग्रहणमभावविशिष्टभूतलग्रहणाच्चाभावग्रहणम्-जे. 2 / 6 वयं-इति बपुस्तके नास्ति / 7 रभावादू-कं. 1 / 8 विलक्षणवा-पं।