________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 541 न्यायकन्दली [195] ये पुनरेवमाहुः - अभावरूपस्य प्रमेयस्याभावान्न साध्वी तस्य प्रमाणचिन्तेति / त इदं प्रष्टव्याः, नास्तीति संविदः किमालम्बनम् ? यदि न किञ्चित् ? दत्तः स्वहस्तो निरालम्बनं विज्ञानमिच्छतां महायानिकानाम् / अथ भूतलमालम्बनम् ? कण्टकादिमत्यपि भूतले कण्टको नास्तीति संवित्तिः, तत्पूर्वकश्च निःशङ्कं गमनागमनलक्षणो व्यापारो दुनिवारः। केवलभूतलविषयं 'नास्तीति' संवेदनम्, कण्टकसद्भावे च कैवल्यं निवृत्तमिति प्रतिपत्तिप्रवृत्त्योरभाव इति चेत् ? किं' कैवल्यं भूतलस्य स्वरूपमेव? किमुत धर्मान्तरम् ? स्वरूपं तावत् कण्टकादिसंवेदनेऽप्यपरावृत्तमिति स एव प्रतिपत्तिप्रवृत्त्योरविरामो दोषः / धर्मान्तरपक्षे च तत्त्वान्तरसिद्धिः / अथ मन्यसे भाव एवैकाकी सद्वितीयश्चेति 'द्वयीमवस्थामनुभवति / तत्रैकाकी भावः स्वरूपमात्रमिति केवल इति चोच्यते, तादृशस्य तस्य दृश्ये प्रतियोगिनि घटादौ [टि०] [195] दत्तः स्वहस्त इति तत्पक्षाङ्गीकाराद् बाहु'दानेन ते स्खलन्तो रक्षिता इत्यर्थः / महायानिका माध्यमिकबौद्धाः। धर्मान्तरेति :-'कण्टकवत्त्वधर्मापेक्षया धर्मान्तरं तत्पक्षे तत्त्वान्तरस्याभावस्य सिद्धिरित्यभिप्रायः / [पं०] [195] ये पुनरिति (कं. 228.26) प्राभाकराः। ते हि पञ्चप्रमाणवादिनोऽभावं प्रमाणं न मन्यन्ते न साध्वी (कं. 228.26) त्यादि। प्रमेयाभावे हि कुतः प्रमाणमित्यर्थः / बत्तः स्वहस्त इति (कं. 229.2) सत्पक्षाभ्युपगमात् / महायानिकानामिति (कं. 229.2) विज्ञानवादिनां माध्यमिकबौद्धानाम् / अय भूतलमालम्बनम् (कं. 229.2) इत्यस्मात्पुरस्तदेत्यध्याहार्यम् / संवित्ति(कं. २२९.३)रित्यस्मात्पुर: स्यादित्यध्याहार्यम् / परवाक्यं केबलेत्यादि (कं. 229.4) / प्रतिपत्तिप्रवृत्त्योरिति (कं. 229.5) प्रतिपत्तिर्नास्तीतिरूपा संवित् / प्रवृत्तिस्तु - निश्शगमनादिका। धर्मान्तरमिति (कं. 229.6) कण्टकवत्त्वधर्मापेक्षया धर्मान्तरं कैवल्यम्। तत्त्वान्तरसिद्धिरिति (कं. 229.8) अभावसिद्धिः। .तादृशस्येति (कं. 229.9) एकाकिनः / तस्येति (कं. 229.10) भावस्य / दृश्ये इति (कं. 229.10) उपलब्धिलक्षणप्राप्ते / तादृशस्येत्यादि गद्ये (कं. 229.9) तादृशस्य तस्योपलब्धिरिति पदयोजना। 'अनुपलब्धि [कु०] [195] एवं भेदान्प्रत्यभावाख्यस्य प्रमाणस्य यथासंभवं प्रत्यक्षानुमानयोरंतर्भावमुक्त्वा प्रमेये विवदमानाप्राभाकारानुत्थापयति ये पुनरिति (कं. 228) नास्तीति (कं. 229) संविदः किमालम्बनमिति (कं. 229) किं मारूपे (स्वरूप) मेव वा भूतलं केवलं भूतलं वा भेदा एकाकिभूतलं वेति प्रश्नार्थः / आद्यं दूषयति यदि नेति (कं. 229) द्वितीयं दूषयति-अय भूतलमिति (कं. 229) - न हि कंटकवद्भूतलमित्यर्थः / तृतीयमाशङ्कते केवलेति (कं. 229) द्वितीयस्मादिति शेषमाह कण्टकादीति (कं. 229) / विकल्प्य दूषयति कि भूतलस्येति (कं. 229) / तत्त्वान्तरसिद्धिरिति (कं. 229) / तथा चाभावः केवलमिति संज्ञामात्रं भिद्यत इत्यर्थः / चतुर्थ मुत्थापयति अथ मन्यस 1 ननु किं - कं. 1, कं. 2; न केवल्यं -जे. 2, जे. 3 / 2 द्वितीयम् -जे. 2, जे. 3 / 3 दाने -अ। 4 कण्टकत्व - अ, ब, क / 5 सिद्धरित्यभिप्रायः- अ, ब / 6 उपलब्धिघटान्यभावं-कं. 1 /