________________ 540 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् . न्यायकन्दली ग्रहणसामग्री 'सा देवदत्तस्यापि तत्संयुक्तस्य ग्रहणसामग्री, 'या च देवकुलस्य स्मरणसामग्री 'सा देवदत्तस्यापि स्मृतिसामग्री, तदेकज्ञानसंसगित्वाद् यदि देवकुलग्रहणकाले देवदत्तोऽभविष्यत् सोऽपि देवकुले स्मर्यमाणे अस्मरिष्यत्, तत्तुल्यसामग्रीत्वात् / न च स्मर्यते, तस्मानासीदेव, तदस्मरणस्य प्रकारान्तरेणासम्भवादिति समानम् / श्लोकस्य तु पदान्युच्चारणानुरोधात् क्रमेण पठ्यन्ते, नेकज्ञानसंसर्गाणि / तेषु यत्र तु 'पटुतरः संस्कारो जातस्तत् स्मर्यते, नापरमिति नास्त्यनुपपत्तिः। एवमुपलभ्यमानस्यापि वस्तुनो यत् प्राक्तनाभावज्ञानं प्रागिदमिह नासीदिति. ज्ञानम्, तदपि प्रतियोगिनः प्राक्तनास्तित्वे स्मर्यमाणे तत्सत्तास्मृत्यभावादनुमानम् / ये तु स्मृत्यभावमप्यभावं प्रमाणमाचक्षते तेषाम् "अभावोऽपि प्रमाणाभावः" इति भाष्यविरोधः, "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते" इत्यादिवात्तिकविरोधश्चेत्यलं. बहुना। [पं०] न झनुपलब्धिः इत्यादि / राधान्त इति मीमांसकानामिति शेषः / यत्र तु पूर्वमिति प्रतियोगिनो देव'कुलादेरस्मरणात् "केवलं भूतदर्शने देवकुलाद्यभावो न गृहीतः / अथ प्रतिपादिग्रहणाभिप्रायेण परं 'प्रत्याह सहस्थितयोरपि इति:-कारणापि धानादेः / "तदपि प्रतियोगिन. इति :-प्रतिसम्बन्धिनो भूतलस्येत्यर्थः / तत्सत्ता पूर्वमा वस्तुनः सत्ता / तेषामभावोऽपि प्रमाणेति-स्मृतेरप्रमाणत्वात्तदभावस्य "प्रमाणाभावत्वानुपपत्तेरिति भावः / इदानीं यत्र तु "पूर्वमित्यादिना (कं. 228.20 ) प्रागुक्तमुपलभ्यमानपक्षमनुमानतया स्थापयिष्यन्नाह एवमुपलभ्यमानस्येत्यादि (कं. 228.21) प्रतियोगिन इति (कं. 228.23) देवकुलस्य / तत्सत्तेति (कं. 228.23) देवदत्तसत्ता। अभावोऽपि प्रमाणाभाव इति भाष्यविरोध इति (कं. 228.24) स्मृतिहि न प्रमाणम् इति कथं तदभावेभावप्रमाणम्, प्रमाणाभावस्यापि भावप्रमाणत्वात् / [Fo] उक्तं प्रकारमन्यत्रादिशति - एवमिति (कं. 228) - प्राक्तनास्तित्व इति (कं. 228) पूर्वकालसंबंध इत्यर्थः / स्मर्यमाण इति (कं. 228) सुस्मूर्षित इत्यर्थः। तस्सत्तास्मृत्यभावाविति (क. 228) तत्कालसंबंधस्मृत्यभावादित्यर्थः। नन्वयमपीह भतले घटाभावो न प्रत्यक्षः अभावत्वात देशान्तरगतस्य देवकूलस्य चैत्राभाववदित्यस्य का गतिरिति चेत, न / अप्रत्यक्षत्वे इन्द्रियव्यापारविलोपस्योपाधित्वात् / इंह चेन्द्रियव्यापारस्यानन्यथासिद्धत्वात् / न चाधिकरणग्रहणायेन्द्रियव्यापार इति वक्तव्यम् , अंधस्य त्वगुपनीते श्यामे घटे न रक्तरूपाभाषप्रतीतिप्रसंगात् / अस्माकं तु यथाकथंचिद्गृहीतेऽधिकरणप्रतियोगिग्राहकमिन्द्रियग्राह्याभाववादिनां न किञ्चिदनिष्टमित्यभिप्रायेणोप[सं हरति -इत्यलं बहुनेति (कं. पृ. 228) / 1 सैव - जे.३। 2 या-जे.१, येव - जे.३। 3 सैव-जे.३। 4 नासीद देवदत्तः-कं. 1, कं. 2 / 5 बहुतरः-कं. 1, कं. 2 / 6 देवकुलादे देवकुलाद स्मरणात् -अ, ब। 7 केवल -ड। 8 स्मृत्याह-अ, ब / ९विधानादौ-अ। 10 'तदपि' इति अब पुस्तकयो स्ति / 11 प्रमाणभावत्वा - अ, ब / 12 'पूर्वम्' इति *. 1 पुस्तके नास्ति।