________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली मानम् / सहोपलब्धयोरपि वस्तुनोः संस्कारपाटवादिविरहादेकस्यास्मरणपरस्य स्मरणं दृष्टम्, यथाधीतस्य श्लोकस्यैकस्य पदान्तरास्मरणेऽपि पदान्तरस्मरणम् / तत्र कथमेकस्य स्मरणे परस्यास्मरणात् अभावानुमानमनैकान्तिकत्वादिति चेत् ? सहस्थितयोरपि पदार्थयोः कदाचित् कारणानुरोधादेक उपलभ्यते नापरः, तत्रापि कथं भूतलोपलम्भादनुपलभ्यमानस्य घटस्याभावसिद्धिः? [194] अथ मतम् - एकज्ञानसंसर्गिणोरेकोपलम्भेऽपरस्यानुपलम्भोऽभावसाधनं न सर्वः / येन 'विज्ञानेन प्रदेशो गृह्यते तेनैव तत्संयोगी घटोऽपि गृह्यते, 'या च प्रदेशग्रहणे सामग्री संव घटस्यापि सामग्री। यदि प्रदेशे घटोऽभविष्यत् सोऽपि प्रदेशे ज्ञायमाने 'व्यज्ञास्यत, तत्तुल्यसामग्रीकत्वात् / न ज्ञायते च, तस्मानास्त्येव, तदनुपलम्भस्य प्रकारान्तरेणासम्भवादिति / यद्येवमस्माकमप्येकज्ञानसंसर्गिणोरेकस्मरणमभावसाधनम् / 'या देवकुल[टि०] पुनरपि परो नैयायिकग्रन्थविकल्पितमाशङ्कय निराचष्टे यदपि इत्यादि / तस्माद् व्यवहिते इति :-प्रतियोगिनि प्रतिसम्बन्धिनि देवकुलादो। एकत्र च इति देवकुलादौ देवदत्ताभावस्य प्रमेयस्य प्रमाणपञ्चकाभावरूपप्रमाण परिच्छेद्यतेत्यर्थम् / अनुमानन्तु 'विवादाध्यस्तोऽभावोऽभावप्रमाणग्राह्योऽभावत्वाद् देवकुले चैत्राभाववदिति / ' अवस्थान्तरप्राप्ते इति-अतद्देशत्वमतदकालत्वं चावस्थान्तरम् / न च इति :- अविद्यमाना ऽनुपलब्धिः / पूर्वमसंविदितत्वाद् इति :- पूर्व हि देवकुलेऽनुपलब्धिः स्वरूपसत्तामात्रैव सञ्जाता न पुनः “संविदतेति / असंविदितत्वमेव ग्राहकप्रमाणा भावाद् दर्शयति [पं०] (कं. 228.4) देवदत्तस्मृतेरभावात् / पर आह सहोपलब्धयो (क. 228.4) रित्यादि / एकस्येति (कं. 228.7) देवकुलस्य / परस्येति (कं. 228.7) देवदत्तस्य / कारणानुरोधादिति (कं. 228.8) कारणमत्र विधानादि / [194] श्रीधरः प्राह यद्येवमित्यादि (कं. 228.14) तवस्मरणस्येति (कं. 228.19) देवदत्तास्मरणस्य / नास्त्यनुपपत्ति (कं 228.21) रित्यत उपन्यासस्तावदनुपलभ्यमानं उद्दिश्योक्तः / [कु०] स्मर्यते यत्राचैत्रस्येव गृहप्रदेश इति व्यतिरेकी स्मरणाभावे संस्कारपाटवाभाव उपाधिरिति दर्श [यि ] त्वा[व्य]भिचारमाशंकते सहोपलब्धयोरपीति (कं. 228) / समानन्यायतया परिहतुं प्रतिबन्धीमाह सहस्थितयोरपीति (कं. 228) षष्ठप्रमाणस्वीकारेऽपीति शेषः / . [194] परस्यानुकूलं तर्क प्रतिबन्धीमोचनाय शंकतो अथ मतमिति (कं. 228) / स्वमतेऽपि तमेव तक योजयति - यद्येवमिति (कं. 228) / संस्कारपाटवाभावमुपाधिमसिद्धिकुर्वन् ग्रहणसामश्यभेदमाह-या च देवकुलस्येति (कं. 228) / उपाधिमुद्धृत्य व्यभिचारमुद्वहति - श्लोकस्य त्विति (कं. 228) - नास्त्यनुपपत्तिरिति (कं. 228) / संस्कारपाटव भेदात्सा(स) हस्मरणयोग्यत्वे विशेषणं विपक्षे न वर्तते / अतः कुतो व्यभिचार इत्यर्थः / .. १हि ज्ञानेन-कं. 1, कं. 2, जे. 2; ज्ञानेन-जे.३। 2 यैव-कं.१।-कं. 1 / 3 विज्ञास्येत- कं. 1, कं. 2, जे.१। 4 यैव-कं. 1, कं. 2, जे. 3 / 1 परिच्छेद्यते इत्यर्थः- अ, ब, परिच्छे द्यते इत्यर्थ:-ड। 2 मत्कालत्वं-अ। 3 मानो-अ, ब / 4 संविदि - अ, ब, संविदिति-क। 5 प्रमाणाभाव-अ /