________________ 538 न्यायकन्दलीसंवलितप्रशस्तपादभाव्यम् न्यायकन्दली विषयग्रहणप्रसङ्गात् / अद्यतनेन व तूपलम्भेन चाद्यतनानपलम्भस्तस्य निवर्तितः, प्राक्तनानुपलम्भस्त्वस्त्येव / तेन प्राक्कालीनाभावपरिच्छेदयोग्येन प्राक्तनाभावः परिच्छिद्यत इति चेत् ? अहो पाण्डित्यम् ? अहो 'नैपुण्यम् ? अनुपलम्भ उपलम्भप्रागभावः, स च वस्तूत्पत्त्यवधिरेक एव न प्राक्तनाद्यतनकाल भेदेन भिद्यते, तत्राद्यतनानुपलम्भो निवृत्तः, प्राक्तनो न निवृत्त इति कः कुशाग्रीयबुद्धेरन्य इममतिसूक्ष्मविवेकमवगाहते / तस्मादभावोऽभावेनैव परिच्छिद्यत इति न बुद्धघामहे / कथं तहि स्वरूपमात्रं गहीत्वा स्थानान्तरं गतस्य स्मर्यमाणे प्रतियोगिन्यभावप्रतीतिः? अनुमानात्, यो हि 'यस्मिन् प्रतियोगिनि स्मर्यमाणे स्मृतियोग्यः सत्यामपि सुस्मर्षायां न स्मर्यते, स तस्य ग्रहणकाले 'नासीदिति / यथा केवले प्रदेशे स्मर्यमाणे तत्र प्राक्प्रतीतो घटोऽस्मर्यमाणः / न च 'स्मयते देवकुले स्मर्यमाणे सत्यामपि सुस्मूर्षायां स्मतियोग्योऽपि देवदत्तः / तस्मात् सोऽपि देवकुलग्रहणसमये नासीदिति स्मृत्यभावादन [पं०] मेत्यादि (कं. 227.21) / तेनेति (कं. 227.22 ) प्राक्तनानुपलम्भेन / प्राक्कालीनाभावपरिच्छेदयोग्येनेति (कं.२२७.२२) प्राक्कालीनाभावसमर्थन / कः कुशाग्रीयबुद्धे (कं. 227.25) रित्यादिः विपरीतलक्षणया उपहासः / अभावोऽभावेनैव परिच्छित इति न बुद्धचामहे इति (कं. 227.25) कोऽर्थः ? किन्त्वभावोनमानव परिच्छिद्यते वक्ष्यमाणयुक्त्येत्यर्थः। परः पृच्छति कथमित्यादि (कं 227.26) / स्वरूपमात्रमिति (कं 227.26) देवकुलसत्कम् / 'गतस्येति (कं. 227.26) प्रमातुः। प्रतियोगिनीति (कं 227.27) देवकुले। अभावप्रतीतिरिति (कं. 227.27) देवदत्ताभावप्रतीतिः / श्रीधर उत्तरयति (कं 227.27) अनुमा[ना]दिति अनुमानमेवाह यो हीति (कं. 227.27) / यो देवदत्तः। प्रतियोगिनीति (कं. 227.27) देवकुल / तस्येति (कं. 228.1) प्रमातुः / स्मृत्यभावादिति कि०] ननु यदि देशान्तरगतेन देवकूलचैत्राभावो नाभावेन परिच्छिद्यते नापीन्द्रियेण, असंन्निकृष्टत्वात, नापि स्मृत्या, निर्विक [ल्पक] स्यापि निरासेन, संस्काराभावात् / न च न परिछिद्यते नासीदिति व्यवहारदर्शनाकिमत्र कर्तव्यमिति सौहार्देन पृच्छति -कि (कथं) तीति (कं. 227) / उत्तरं स्वरूपमात्रमिति व्याप्तिमाह यो होति (कं. २२७)उपनयमाह न स्मर्यते देवकुल इति (कं. 228) - वि(नि)गमनमाह तस्मादिति (कं. 228) - एतदनुसारेण प्रतिज्ञाहेतू बहिरेव द्रष्टव्यौ। एवं च प्रयोगनिष्कर्षः-देवकुलं तदानीं चैत्राभाववत्, स्मरणयोग्ये सुस्मूर्षिते तस्मिन्नस्मर्यमाणे स्मयमाणत्वात् / अस्तु प्रदेशश्चत्रवान् प्रति [योगि]प्रागनुभूतः संस्मरणयोग्ये सुस्मूर्षिते तस्मिन्नस्मर्यमाणे न 1 तूपलम्भेन -कं. 1; कं. 2; वस्तूपलम्भेनानुप -जे. 3 / 2 नैपुण्यम्-जे. 2 / 3 न्तरगतस्य - कं. 1 कं. 2, जे.३। 4 यस्मिन् स्मर्यमाणे-कं. 1 कं. 2 / 5 नासीत्-जे. 1, जे. 2 / 6 स्मर्यते च-जे, 1; जे.२ / 7 स्मृत्यभावानुमानम् - जे. 3 / 8 स्थानान्तरगतस्य-कं. 1 / 9 पुस्तके प्रतीकमिदं नास्ति / /