________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् न्यायकन्दली देवकुलग्रहणसमये नासीदिति ? इदानीन्तनानुपलन्धिस्तावद्योग्यानुपलब्धिर्न भवति, देशव्यवधानात् / सम्प्रत्य'भावोऽपि तत्र देवदत्तस्य सन्दिग्धः, आगमनस्यापि सम्भवात् / प्राक्तनाभावपरिच्छेदयोग्या 'तु प्राक्तनानुपलब्धिर्नेदानीमनुवर्तते, अवस्थाम्तरप्राप्तेः / न चाविद्यमाना 'प्रतीतिकारणं भवितुमर्हति / नापि स्मृत्यारूढा व्याप्रियते, पूर्वमसंविदितत्वात् / नह्यनुपलब्धिः प्रमाणान्तरसंवेद्या, अभावरूपत्वात् / अनुपलब्ध्यन्तरापेक्षायां चानवस्था स्यात् / तस्मावियमगृहीतवेन्द्रियवदर्थपरिच्छेदिकेति राखान्तः, तथा सति कुतस्तस्याः स्मरणम्? अनुभवाभावात् / ___अथ मतम्-देवकुले देवदत्तानुपलम्भो देवदत्तोपलम्भेन 'निवय॑ते, न च देशान्तरगतस्य तदुपलम्भो जातः, तस्मादस्त्येव तदनुपलम्भः / यदि स्ववस्थान्तरमापन्नः, न चावस्थाभेदे वस्तुभेद इति / अस्तु तर्हि तावविहैवम् / यत्र तु पूर्व प्रतियोगिस्मरणाभावाद्वस्त्वभावो न गृहीतः, पश्चात् कालान्तरे वस्तुग्रहणाविहेदानीं नासीदिति प्राक्तनाभावज्ञानम्, तत्र कः प्रतीकारः ? 'निवृत्तो हि तवस्त्वनुपलम्भस्तस्योपलम्भेन / न चानुपलम्भः 'पूर्वमामीदिति सम्प्रत्यविद्यमानोऽपि प्रतीतिहेतुः, प्रनष्टेन्द्रियस्यापि [पं०] देशान्तरगतस्येति (कं. 227.15) प्रमातुः / तदुपलम्भ इति (कं. 227.16) देवदत्तोपलम्भः / यषि विति (कं. 227.16) यदि परम् / अवस्थान्तरमिति (कं. 227.16) तदा ततोऽद्यतन इत्येवं रूपम्। श्रीधरः प्राह अस्तु त_त्यादि (कं 227.16) / प्रतियोगिस्मरणाभावादिति (कं. 227.17) देवकुलस्मरणाभावात् / वस्त्वभाव इति (कं. .227.17) देवदत्ताभावः / तस्येति (कं. 227.19) वस्तुनः / [त] स्योपलम्मेन (के. 227.19) इत्यस्मात्पुरा किंन्त्वित्यध्याहार्यम् / प्रतीतिहेतुरिति किं. 227.20) देवदत्ताभावप्रतीतिहेतुः / भट्टः प्राह अद्यतने [कु०] द्रष्टव्यः / द्वितीयं दूषयति -प्राक्तनेति (कं. 227) - अवस्थान्तरप्राप्तेरिति (कं. 227) एतत्कालविशिष्टस्य तदानींतनत्वं नास्त्येवेत्यर्थः / प्रमाणान्तरसंवेद्येति (कं. २२७)-प्रत्यक्षाद्यन्यतरसंवेत्यर्थः / कुत इत्यत माहअभावरूपत्वाविति (कं. २२७)-अनवस्येति (कं. 227) अनुपलब्धिग्राहके यत्षष्ठं प्रमाणं तदप्यनुपलब्धिरूपत्वादन्येन षष्ठेन वेद्यमेवं तदाप्यन्येनेत्यतिप्रसंगादित्यर्थः / न च देशान्तरगतस्येति (कं. 227) स्मरणाभावादिति शेषः / इहावच्छेदानामसहकारिकालभेदस्ततश्च तद्भदादपि कार्याभावो युक्त एव / तथाप्यंगीकृत्य दूषणान्तरमाह अस्तु तावविति (कं. २२७)-तथाऽवस्थाभेदः कार्य व्याहन्ति / तथा निवृत्तिमप्याह-निष्पतीत्याशयत्वाच्छंकते-अद्यतनेनैवेति (क. 227) न प्राक्तने सति मिणि कालभेदः कार्यभेदायोपयज्यते / निवर्तमान त मिणि न धारयितं शक्नोतीति भावः / 1 त्यभावो देवदत्तस्य - कं. 1, कं. 2 / 2 च -जे. 1, जे. 2 / 3 प्रतीतिः- जे. 1, जे. 2 / 4 विनिकं. 1, .2; निवर्तते-जे. 3 / 5 निवर्ततो-जे.३। 6 पूर्व नासीदिति-जे.३। 7 तदनुपलम्भ- 1 /