________________ 536 न्यायकम्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली __ यदपि 'विकल्पितं किं देवदत्तसंकीर्णस्य देवकुलस्य पूर्व प्रतीतिरासीत् ? तद्विविक्तस्य वा? 'संकीर्णग्रहणे तावत् केवलस्य न स्मरणम् / विविक्तग्रहणे 'चाभावो गृहीत एव पश्चात् स्मर्यत इति प्राप्तम् / तदप्यसारम्, देवदत्तभावाभावयोरग्रहणेऽपि देवकुलस्य स्वरूपेण ग्रहणात् / तस्मान्न पूर्वमभावग्रहणम्, तदभावान्न स्मृतिः, न च तदानी प्रमाणान्तरमुपलभ्यते / तस्माद्वयवहिते प्रतियोगिनि स्मृत्यारूढेऽभावग्रहणाय प्रत्यक्षादिप्रमाणपञ्चकव्यावृत्तिरेव प्रमाणम् / एकत्र चाभावस्याभावपरिच्छेद्यत्वे सिद्धेऽन्यत्रापि तेनैव सेत्स्यतीति सिद्धभभावस्य प्रमाणान्तरत्वम् / अत्रोच्यते-देशान्तरं गतः केनचित्पृष्टो देवकुले देवदत्तस्यैदानीन्तनानुपलम्भेने- . दानीन्तनाभावं प्रत्येति 'इदानीं नास्ति' इति ? किं वा प्राक्तनानुपलम्भेन प्राक्तनाभावं [टि०] निरूप्य 'पुनर्हेत्वन्तरं 'सूचितं स्वतन्त्रत्यादि। भावो हि स्वतन्त्रो पलब्धौ कारणं भवति, अभावस्तु परतन्त्रानुपलब्धौ। अत्रानुपलब्धिः प्रतिषेधमुखेनोपलम्भः / [पं०] विकल्पितमिति (कं. 226.25) क्वचिच्छास्त्रे। देवदत्तसङ्कीर्णस्येति (कं. 226.25) देवदत्तसंयुक्तस्य / केवलस्य न स्मर[ण]मिति (कं. 226.26) यदा गृहीतं हि स्मर्यते / गृहीत एवेति (कं. 226.27) इन्द्रियापातमात्रजेन निर्विकल्पकेन पूर्वमेवधारित एव / तदानीमिति (कं. 227.2) देवकुलस्य स्वरूपग्रहणावसरे। प्रमाणान्तरमिति (कं. 227.2) येनाभावो गृह्यते / प्रतियोगिनीति (कं. 227.3) देवकुल / अमावस्येति (कं. 227.4) प्रमेयाभावस्य / अभावपरिच्छेद्यत्वे इति (कं. 227.9) अभावप्रमाणनिश्चयत्वे। अत्रोच्यते इति / अथ मत (कं. 226.10) मित्यारभ्य यत्परेणोक्तं तत्र श्रीधरेण प्रतिविधीयते इत्यर्थः / द्वितीयं विकल्पं निरस्यति प्राक्तनाभावेत्यादि (कं 227.9) / नेदानीमनुवर्तते (कं. 227.10) बुद्धीनां विनाश (शि)त्वात् / अवस्थान्तरप्राप्ते (कं. 227.10) रिति पूर्वावस्थाऽवरावस्था चेति अवस्थाद्वयम् / इति राद्वान्त इति (कं. 227.13) इति सिद्धान्तो मीमांसकस्यं / [कु.] न्यायवार्तिककार = आचार्योद्योतकरः / दूषणोद्धारमाशंक्य दूषयति यवपीति (कं. 226) परिहाराभासदूषणमुपसंहरति तस्मात् (भ) पूर्वमिति (कं. 226) पूर्वपक्षमुपसंहरति तस्माद् व्यवहित इति (कं. 227) नन्वस्त (तु) देवकुलचैत्राभावे अभाव: प्रमाण देशान्तरगतस्य तदानीं तद्देशवतिनो घटाभाव: प्रत्यक्षो भविष्यति, इन्द्रियव्यापारसंभवादित्यत आह एकत्रेति (कं. 227) / स चाऽयं न्यायः- इह भूतले घटाभावोऽभावग्राह्यः, अभावत्वात, देशान्तरगतस्य देवकुलचैत्राभाववदिति / तत्र ग्राहकमभावं कालभेदेन द्वधा विकल्पयति - देशान्तरमिति (कं. 227) गतस्यायं विकल्पो द्रष्टव्यः / भाचं दूषयति -बबानीतनेति (कं. २२७)-अत्रेदानींतनाभावे ग्राह्ये कालबाधोऽपि 1 विकल्पितं देवदत्त ... - जे. 3 / 2 सहोर्णस्य -जे.२। 3 वा-कं 1, कं. 2 / 4 व्यवहितेऽपि-कं.१, कं.२ 5 स्येदानीन्तनाभावेनानुपलम्भेन-जे.। 6 निरूप्यहेत्वन्तरं - अ, ब, ड। 7 समच्चितं -ड। 8 पलब्धो -भ।