________________ 528 न्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् न्यायकन्दली इदमत्राकूतम्-अर्थाप्रतिपादकत्वं प्रमाणस्यानुपपत्तिः / 'दिवा न भुक्ते' इति वाक्यं च स्वार्थ बोधयत्येव, का तस्या'नुपपन्नता? पीनत्वं भोजनकार्य दिवाभोजने सति तन् नोपपद्यते, कारणाभावात् / तदनुपपत्तौ च वाक्यमप्यनुपपन्नम्, अनन्वितार्थत्वादिति चेत् ? तमुर्थानुपपत्तिर्वाक्यस्यानुपपन्नत्वमर्थोपपत्तिश्चोपपन्नत्वम्, न त्वस्य स्वरूपेणोपपत्त्यनुपपत्ती। दिवा न भुजानस्य पीनत्वलक्षणश्चार्थो भोजनकार्यत्वाद्रात्रिभोजन'रूपेणार्थेनोपपद्यते, न रात्रिभोजनवाक्येनेत्यर्थस्यानुपपत्या तस्य तद्वाक्यस्य चोपपत्तिहेतुरर्थ एवार्थनीयो न वाक्यम्, अनुपपादकत्वात्। 'अर्थ्यमानश्चार्थोऽर्थेनैवावगम्यते, दिवा भोजनरहितस्य पीनत्वस्य रात्रिभोजनकार्यत्वाव्यभिचारादिति नास्त्यर्थापत्तिः शब्दगोचरा। [टि०] परमाशङ्कते पोनत्वं भोजनेत्यादि / 'अर्यमानश्वार्थ इति :- अर्थ्यमान: 'साध्यो रात्रिभोजनलक्षणोऽर्थः अर्थेन. दिवाभोजनरहितस्य पीनत्वलक्षणेन गम्यतेऽनमीयते इत्यर्थः / पुनर्भेदमाशङ्कते अथ मतमर्थ इति तदूपपत्त्याऽर्थोपपत्त्या तस्यार्थस्य वाचको यः शब्दस्तस्य / प्रमाणान्तरावगतस्य इति प्रमाणान्तरं प्रत्यक्षादि तेन शाब्देनार्थेन / 'तस्मिन् सति इति कलापादिग्राहके प्रत्यक्ष सति / अन्यथा दिवावाक्यपदेति रात्रिभोजनरूपस्येत्यर्थरूपस्येत्यर्थः / न ताभ्याम् इति / [पं०] घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न 'पुनस्तद्वैधान्निरवयवत्वान्नित्य इति। एतच्च वैधयॊद्भावनं : दूषणाभासमा न दूषणं कृतकत्वस्य सम्यग्धेतोः साध्यसाधनक्षमत्वात् तथाऽन्वयोऽपि / यत्प्रमाणद्वयेविरुद्धेऽर्थोपत्तेः प्रवर्तनायानुमानतो वैधम्यं प्रतिपादितं न जातिदोषमात्रम् अनुमानस्य दूषणत्वात् इति भावार्थः / एतदेव दृढयति : तथा चात्र प्रयोग (कं. 223.15) इत्यादिना। तत्कारणस्येति (कं. 223.19) पीनत्वकारणस्य / परः प्राह पीनत्व(कं. २२३.२१)मित्यादि / तदिति (कं. 223.22) पीनत्वम् / तदनुपपत्ताविति (कं. 223.22) पीतत्वानुपपत्तो। श्रीधरः प्राह तीत्यादि (कं. 223.22) / अस्येति (कं. 223.23) वाक्यस्य / अर्थस्येति (कं. 223.25 ) पीनत्वरूपस्य / "तस्येति (कं. 223.25) अर्थस्य / अर्थ एवेति (कं. 224.1) रात्रीभोजनरूपः / अनुपपादकत्वादिति (कं. 224.1) अनुपपत्तिहेतुत्वात् / अर्थ इति (कं. 224.2) रात्रिभोजनरूपः / अर्थेनेति (कं. 224.2) पीनत्वेन / नास्यार्थांपत्तिः शब्दगोचरेति (कं. 224.3) कित्वर्थगोचरेति भावः / [कु०] पीनत्वं प्रतिपाद्यते येन तत्स्वकारणं रात्रिभोजनमनुमापयेदित्यत आह - इदमत्रेति (कं. २२३)-वाक्यं हि तदा न्यूनं भवेत् यदि कल्प्यमानं वाक्यशेषमन्तरेण श्रयमाणानां यदा नामन्वयो न स्यात्, इह चास्त्यन्वयः / पीनकर्तृकभोजनाभावस्य रात्री भुङ्क्त इत्यश्रवणेऽपि कालविशेषसम्बन्धप्रतीतिरित्यर्थः / प्रमाणान्तरगम्यस्यार्थस्यान्वयानुपयोगमज्ञानतः परस्य मतमाशंकते = पीनत्वमाशंकते पीनत्वमिति (कं. २२३)-शंकितुरभिप्रायं दर्शयन्नुत्तरमाह तहथेति (कं. २२३)अर्थस्येति, एवं तहर्थधर्मानुपपत्तिर्भवता शब्दाध्यारोपितेरित्यर्थः। प्रमाणान्तरगम्यस्यार्थस्य शब्दस्य रात्रिभोजनवाक्या.१ मुपपद्यमानता-जे. 1, जे. 2 / 2 नोपपद्यते-कं. 1; कं. 2 / 3 स्वरूपेण-जे. 1, जे. 2 / 4 उपपद्यमान - कं. 1; कं. 2 / 5 अर्थमानस्वार्थ -अ, ब / 6 साधो-अ, ब, क / 7 शब्देन-अ। 8 तस्मि सति कलावादि-अ; तस्मि सतीति विकल्पादि -ब। 9 भोजनस्येत्यर्थः-अ, ब, रात्रिभोजनरूपस्येत्यर्थः - क / 10 अर्थस्य इति अ पुस्तके न दृश्यते /