________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 527 न्यायकन्दली द्रग्यमेकत्रास्ति तदन्यत्र नास्तीति / यथा प्राचीप्रतीच्योरेकत्रोपलभ्यमानः सविताऽन्यत्र न भवतीति, इदं दर्शनबलेन वावधार्यते जीवतो गृहाभावो बहिर्भावे सत्युपपद्यते नान्यथेति / 'योवमन्वयावगतिपूविकैव तथोपपत्त्यवगतिः ? तथा सति चापत्तिरनुमानमेव, अन्वयाधीनजन्मत्वात् / यत्तु विरोधे सति प्रवर्तत इति तद्वधर्म्यमात्रम् / तथा चात्र प्रयोगः-देवदत्तो बहिरस्ति, जीवन सम्बन्धित्वे सति 'गेहेऽनुपलभ्यमानत्वात्, अहमिवेति। श्रुतार्थापत्तिमन्तर्भावयति-श्रवणादनुमितानुमानमिति / पीनो दिवा न भुक्ते इति वाक्यश्रवणाद्रात्रिभोजनकल्पना 'अनुमितानुमानम्' / लिङ्गभूतेन वाक्येनानुमितात् पीनत्वात् तत्कारणस्य रात्रिभोजनस्यानुमामात् / [टि०] इति-'जीवतो गृहाभावोपपत्तिस्तथोपपत्तिः / नन्वर्थापत्तेः प्रमाणद्वयविरुद्धेऽर्थे प्रवृत्तिरनुमानाद्वैधर्म्य तत्कथमस्या 'विधर्मणोऽनुमानत्वमित्याह यत्तु विरोधे सति इति - परो हि जीवन्गृहे नास्तीति [शब्द श्रवणात् बहिरस्तीति] वाक्यप्रतीतिमापत्तिफलमाह / सिद्धान्तवादी तु वाक्येनानुपपद्यमानेन बहिरस्तीति वाक्यं नाक्षिप्यते 'किन्तु वाक्येन वाक्यान्तरनिरपेक्षेणैव स्वार्थे प्रतिपादिसे तदर्थोऽनपपद्यमानो बहिः सत्त्वमर्थ मनुमापयति म तु बहिरस्तीति शब्दमाक्षिपतीति प्रतिपिपादयिषया प्राह अर्थाप्रतिपादकत्वम इत्यादि / / [पं०] चत्रो हि जीवति ततश्च गृहेपि भवति बहिरपि भवत्विति भावना। अथ भट्टः प्राह दृष्टमेतदित्यादि (कं. 223.10) श्रीधर: प्राह "यद्येवमित्यादि (कं. 223.13) / तथोपपत्त्यवगतिरिति (कं. 223.13) जीवतो गुहाभावोपपत्ति-स्तथोपपत्तिः / ननु भो जीवनग्राहि प्रत्यक्षं गहाभावग्राहि अभावप्रमाणं एवंरूपं प्रमाणद्वये विरुद्धऽर्थे प्रवर्तमानादवित्तेरनुमानाद्वैधयं दृश्यते तत्कथमस्याविधर्मणोऽनुमानत्वमित्याशक्याह यत्तु विरोधे (कं. 223.14) इत्यादि / प्रवर्तते (कं. 223.15) इत्यत्रार्थापत्तिः कर्की / वैधर्म्यमात्रमिति (कं. 223.15) इह चतुर्विंशतिर्जातिदोषाः इति नाम्ना प्रसिद्धानि दूषणाभासानि, तेष्वेकं वैधयं नाम; तच्चैवम् ‘अनित्यः शब्दः कृतकत्वाद् घटत्तद्' इत्यत्र प्रयोगे कश्चिदाह 'नित्यः शब्दो निरवयवत्वाद् अनित्यं हि सावयवं दृष्टं घटादीति / न चास्ति विशेषहेतु / [कु.] विरोध्यनुमानमित्यत आह - गृहाभाव इति (कं. 223) / स्वदर्शनश्रद्धाजाडयेन सम्बन्धान्तरं वक्तुमशक्नुवन्तं प्रति स्वयमेव तदाह वयं त्विति (कं. 223) / यदव्यापकद्रव्यमेकनास्तीति (कं. 223) बहिः सर्गे गृहाभावो न विरुध्यत * इति प्रदर्शनायोक्तं व्याप्तिस्तु व्यत्यये न द्रष्टन्या। ततः किमित्यत आह - यद्येवमिति (!) अन्वयाधीनजन्मत्वादिति (कं. २२३)-अनेन पूर्वपक्षहेतोविशेषणासिद्धिदर्शिता। नन्वेवं तहि लिंगलिगिनोः परस्परानकल्यात्कथमेतद्विरोध्यनमानमिति शंकामपनयन्नेवानु [माना] वांतरभेदो नानुमानबाह्य इति दर्शयति यत्त्विति (कं. 223) / नन्वेवमस्तु व्याप्तिः पक्षधर्मता कीदृशा इति शंका निराकुर्वन्प्रयोगमाह तथा चात्रेति (कं. 223) / ननु न्यूने(न)वाक्येन कथं 1 एतदबधार्यते-जे. 2, जे. 3 / 2 नत्वे-कं. 1; कं.२। 3 सम्बन्धत्वे-मे. 1 / 4 गृहे-कं.१; कं.२ / 5 जीवितो-अ, ब / 6 धर्मणो-अ, ब / 7 [ ] एतचिह्रान्तर्गत: पाठ: अबपुस्तकयो स्ति, शब्दाश्रवणात्-कं। 8 विन्दतु-अ। 9 मनुभावयति-अ, ब। 10 नत्वेब-कं. 1 /