________________ 526 ग्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तत्र दृष्टार्थापत्ति तावदनमानेऽन्तर्भावयति- 'दर्शनार्थादर्थापत्तिविरोध्येऽवेति / दृश्यत इति दर्शनम्, दर्शनं च तदर्थश्चेति दर्शनार्थः पञ्चभिः 'प्रमाणैरेवावगतोऽर्थः / तस्माद्दर्शनार्थादर्थान्तरस्यापत्तिरर्थान्तरस्या'वगतिविरोध्यनुमानमेव / ' यस्य यथा नियमस्तस्य तथैव लिङ्गत्वम्, इह तु प्रमाणान्तरविरुद्ध एवार्थोऽर्थान्तराविनाभूत इति विरोध्येव लिङ्गम् / ___ अयमभिप्रायः-गृहाभावो यद्यनुपपत्तिमात्रेण बहिर्भावं कल्पयति, नियमहेतोरभावाद् अर्थान्तरमपि कल्पयेत् / स्वोपपत्तये गहाभावोऽर्थान्तरं कल्पयति, अन्यस्मिन् कल्पिते च न तस्योपपत्तिरिति चेत ? बहिर्भावे सति तस्योपपत्ति रित्यपि केन कथितम् ? वयं तु ब्रूमो बहिर्भावेऽपि सति गृहाभावस्यानुपपत्तिरेव / दृष्टमेतद् यदव्यापक [टि०] 'केवलव्यतिरेकी हेतुरर्थांपत्तिरेवेति / पञ्चभिः प्रमाणः इति- अर्थापत्तेरेवाद्यापि साध्यमानत्वात्प्रत्यक्षानुमानोपमानशब्दाभावापेक्षया पञ्चभिरित्युक्तम। 'अथाविनाभाव एव बहिः सद्धावे गमक इति "प्रतिपिपादयिषुराह अयमभिप्राय इत्यादि / बहिर्भावस्य "गृहाभावोपपत्तौ गमकताप्रतिपिपादयिषया परः प्राह "दृष्टमेतद् यद्व्यापकम् इति / "योवम् [पं०] पञ्चभिरिति (कं. 223.3) अर्थापत्तेरद्यापि साध्यमानत्वात् पञ्चभिरित्युक्तं यावता षड्भिरिति वक्तुं युक्तमासीत् / अवगतोऽर्थ इति (कं. 223.3) अर्थो जीवनम् / अर्थान्तरस्येति (कं. 223.4) बहिर्भावस्य / यस्य यथानियमस्तस्य तथैव लिङ्गत्वमिति (कं. 223.5) अत्र च विरोधित्वेन लिङ्गत्वमित्यभिप्रायः / प्रमाणान्तरविरुख इति (कं. 223.5) प्रमाणान्तरं जीवनाभिधायक आगमः / अर्थ इति (कं. 223.6) गृहे अभावः / अर्थान्तराबिनाभूत इति (कं. 223.6) अर्थान्सरं बहिर्भावलक्षणम् / ___ अन्यस्मिन्नि [ति] (कं. 223.8) मरणे। तस्येति (कं. 223.7) तच्छब्देन स्वोपपत्तये (कं. 223.8) इत्यत्र गृहीतस्य 'स्व'शब्दस्य परामर्शः / तस्येति (कं. 223.9) गृहाभावस्य / गृहाभावस्यानुपपत्तिरिति (कं. 223.10) [कु०] (कं. 222) - अन्यतरविषयसंकोचकल्पनया उभयोरपि साधकत्वे संभवति / तदभावकल्पनमन्याय्यमित्यर्थः / तदेवोभयोः साधकत्वम् / अनुमानस्य विषयसंकोचं दर्शयति जीवत इति (कं. २२२)-एवं चास्यानुमानाबहिर्भाव इत्याह चैत्रो जीवतीति (कं. २२२)-एवं च प्रयोगः / - अर्थापत्तिर्नानुमानम् / व्याप्तिपक्षधर्मतयोरननुसंधानेऽपि स्वार्थप्रतीतिहेतुत्वात् / प्रत्यक्षवदिति व्यतिरेकप्रर्वतिनीति अनुमानसामग्री व्यतिरेकेऽपि प्रवर्तिनीत्यर्थः / ननु पीनत्वमर्थापत्त्या भोजनमप्यर्थमेव कल्पयतीतीयमपि दृष्टार्थापत्तिरेवेत्यत आह रात्रौ भुङ्क्त इति (क. २२२)-वाक्य[एकदेश] कल्पनेति (कं. २२२)-अपेक्षणीयम् / रात्रिभोजनवाक्याभावे पूर्वं वाक्यमप्रत्यायकमिति भाव।। पञ्चमिरिति (कं. २२३)-परमतेनोक्तम्, तत्राप्युपग्रहे चैत्राभावस्य षष्ठप्रमाणत्वात् / ननु कथमिदं 1 दर्शनार्थापत्ति-जे.१, जे. 2, जे. 3 / 2 प्रमाणरगतोऽर्थः-कं. 1, कं.२। 3 वगतिविरोध्येव विरोध्य - कं.१७ कं. 2, मे.१। 4 अर्थान्तरमपि-जे.१। 5 रिति केन तत्कथितम् -कं.१; कं. 2 / 6 अध्यापकंकं. 1, कं. 2 / 7 केवलव्यतिरेकौति -ड। 8 अर्थापत्तेरद्यापि-ह। 9 अर्थविना-ड। 10 प्रतिपादयिषुभ, ब। 11 स्य हाभावो.-ड। 12 दृष्टमेतद् व्यापकम्-मु.। 13 नत्वेवम् मु. यद्येवम्-ने. 1 जे. 2, जे. 3 /